________________
सू० २।१२] मोक्षस्वरूपविचारः ३२१ न च निरन्वये चित्तसन्ताने बद्धस्य मुक्तिः। तत्र ह्यन्यो बद्धोऽ. न्यश्च मुच्यते। __ सन्तानैक्यावद्धस्यैव मुक्तिरपीति चेत्, ननु यदि सैंन्तानार्थः परमार्थसन् ; तदात्मैव सन्तानशब्देनोक्तः स्यात् । अथ संवृतिसन्; तदैकस्य परमार्थसतोऽसत्त्वात् 'अन्यो बद्धोऽन्यश्च ५ मुच्यते' इति मुक्त्यर्थ प्रवृत्तिर्न स्यात् । अथात्यन्तनानात्वेपि दृढतरैकत्वाध्यवसायाद् 'बद्धमात्मानं मोचयिष्यामि' इत्यभिसन्धानवतः प्रवृत्तेर्नायं दोषः, न तर्हि नैरात्म्यदर्शनम् , इति कुतस्तन्निबन्धना मुक्तिः ? अथास्ति तदर्शनं शास्त्रसंस्कारजम् ; न तहाँकत्वाध्यवसायोऽस्खलद्रूप इति कुतो बद्धस्य मुत्यर्थ प्रवृत्तिः१० स्यात् ? तथा च
"मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि" [प्रमाणवा० २।१९२] इति प्लेवते । तस्मात्सान्वया चित्तसन्ततिरभ्युपगन्तव्या, सकलविज्ञानक्षणत्वेपि जीवाभावे बन्धमोक्षयोस्तदर्थ वा प्रवृत्तेरनुपपत्तेः । न चान्योन्यविलक्षणाऽपरापरचित्तक्ष-१५ णानामनुयायिजीवाभावो विरोधात्; इत्यभिधाँतव्यम्; वसंवेदनप्रत्यक्षेण तत्रानुयायिरूपतया तस्य प्रतीतेः । प्रतीयमानस्य च कथं विरोधो नाम अनुपलम्भसाध्यत्वात्तस्य ?
तद्व्यापारे चासति आत्मनि प्रत्यभिज्ञानप्रत्ययस्य प्रादुर्भावो न स्यात् । अथात्मन्यप्यारोपितैकत्वविषयत्वादस्य प्रादुर्भावः, न; २० अस्यारोपितैकत्वविषयत्वे खात्मन्यनुमानाक्षणिकत्वं निश्चिन्वतो निवृत्तिप्रसङ्गात् , निश्चयाँरोपैमनसोविरोधात् । निवर्तत एवेति
१ पूर्वक्षणः । २ उत्तरक्षणः। ३ अपिशब्दाद्वन्धोपि । ४ बौद्धानां मते पूर्वोत्तरक्षणानामेक आधारभूतः सन्तानः स अपरमार्थः सन्केवलः पूर्वक्षणः उत्तरक्षणः सन्तानी स तु परमार्थसन् । ५ कल्पनासन् । ६ आत्मनः। ७ क्षणानाम् । ८ अभिप्रायवतः। ९ निर्विकल्पकस्य । १० भावना। ११ बद्धस्य मुत्त्यर्थ प्रवृत्त्यभावे च। १२ नैरात्म्यभावनालक्षणः। १३ विनश्यति। १४ अन्वयाभावे बन्धो मोक्षो वा न घटते यतः। १५ सद्रव्या। १६ अन्यथा। १७ परेण। १८ पूर्वक्षणे अहमेव दुःखी उत्तरक्षणेऽहमेव सुखीति । १९ स्वस्मिन् । २० न केवलं बहिः। २१ संवृत्या। २२ चेदिति शेषः। २३ वरूपे। २४ यत्सत्तत्क्षणिकमित्यादि। २५ आरोपितेकत्व विषयस्य प्रत्यभिज्ञाप्रत्ययस्य । २६ अनुमानेन । २७ सोहं प्रत्यभिज्ञानरूपो विकल्पः। २८ मनः ज्ञानम् । २९ एकत्र। ३० अनुमानमनित्यत्वसाधने एकसिन्वस्तुनि प्रवृत्तं प्रत्यभिज्ञानं त्वेकत्वसाधने इति विरोधः। ३१ क्षणिकत्वनिश्चयसमये एकत्वविषयं प्रत्यभिज्ञानम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org