________________
३१२
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० यतस्तत्र ततस्तंदुत्पत्तिः स्यात् ? अथोधं योगजधर्मापेक्षान्त:करणसंयोगो विज्ञानं जनयति तच्चापेक्ष्योत्तरोत्तरं ज्ञानम् । तदप्ययुक्तम्, न हि शरीरसम्बन्धानपेक्षं विज्ञानमेवान्तःकरणसंयोगस्य ज्ञानोत्पत्तौ सहकारिकारणं दृष्टम् । न च दृष्टविपरीतं ५शक्यं कल्पयितुमतिप्रसङ्गात् । आकस्मिकं तु कार्य न भवत्येव, अहेतोः सर्वत्र सर्वदा भावप्रसङ्गात् ।
किञ्च, यथा मुक्तावस्थायामनित्यसुखमतिक्रम्य नित्यं परिकल्यंते, तथा नित्यत्वधर्माधिकरणं शरीरादिकमपि परिकल्पनीयम् । कार्यत्वात् तस्य कथं नित्यत्वधर्माधिकरणत्वम् दृष्टविरो. १० धादप्रमाणकत्वाच्च ? इत्यन्यत्रापि समानम् । न खलु नित्यसुख
साधकत्वेन प्रत्यक्षानुमानागमानां मध्ये किञ्चित्प्रवर्त्तते, अस्मदादीन्द्रियजप्रत्यक्षस्यात्र व्यापारानुपलम्भात् । 'योगिप्रत्यक्षं त्वेवं प्रवर्ततेऽन्यथा वा' इत्यद्यापि विवादपदापन्नम् ।
यश्चात्मा सुखस्वभाव इत्यनुमानं तदपि न नित्यसुखखभावता१५साधकम् ; सुखस्वभावतामात्रस्यैवातः प्रसिद्धः।
किञ्च, सुखस्वभावत्वं सुखत्वजीतिसम्बन्धित्वम् ; तन्नात्मनि सम्भाव्यते गुणे एवास्योपलम्भात् । न ह्येका काचिजातिद्रव्यगुणयोः साधारणोपलभ्यते । अथ सुखाधिकरणत्वम् तन्नअस्य नित्यानित्यविकल्पानुपपत्तेः। तथा सुखत्वस्य सुखस्य वाधिकरण२० तायां तज्ज्ञानस्यापि नित्यानित्यविकल्पः समानः।
साधनं च अत्यन्तप्रियवुद्धिविषयत्वमनन्यपरतयोपादीयमानत्वं चानकान्तिकत्वादसाधनम् ; दुःखाभावेपि भावात् । अनन्यपरतयोपादीयमानत्वं चासिद्धम् । न ह्यात्माऽन्यार्थ नोपादीयते; सुखार्थ
१ नित्यसुख । २ नित्यसुखसंवेदनम् । ३ आत्मान्तःकरणसंयोगो जनयति । ४ किन्तु शरीरसम्बन्धापेक्षं सद्विज्ञानं सहकारिकारणं दृष्टम् । ५ सौगतादेरपि संवेदनस्य क्षणिकत्वादिसिद्धिप्रसङ्गात् । ६ वेदान्तिना भवता । ७ इन्द्रियं च । ८ नित्यसुखे । ९ नित्यसुखग्राहकत्वेन । १० नित्यासुखाग्राहकत्वेन । ११ जाति:= सामान्यम् । १२ निश्चीयते । १३ सुखलक्षणे। १४ सुखाधिकरणत्वस्य सुखस्वभावत्वस्य । १५ अन्यलीनतया। १६ वैशेषिकः। १७ नित्यं चेन्मुक्तेतरावस्थाया अविशेषप्रसङ्ग इत्यादि दूषणम् । अनित्यं चेदुत्पत्तिकारणं वाच्यमित्यादि दूषणम् । १८ तथा दूषणान्तरसमुच्चये। १९ आत्मनः। २० दुःखाभावो हि त्यक्तभरस्या. त्यन्तप्रियबुद्धिविषयः अनन्यपरतयोपादीयमानश्च । न त्वसौ सुखस्वभावस्तस्य तुच्छ. रूपत्वात् । २१ अभावस्य निःस्वरूपत्वान्नैयायिकादिमते । २२ सुखलीनतयाऽहं सुखीत्युल्लेखेन।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org