________________
प्रमेयकमलमार्त्तण्डे [ २. प्रत्यक्षपरि०
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन तु पाचयेत् ॥ २ ॥ अभ्यासात्पैकविज्ञानः कैवल्यं लभते नरः । काम्ये निषिद्धे च परं प्रवृत्तिप्रतिषेधतः ॥ ३ ॥" [ ] ५ ' स्वर्गकामः' इत्याद्यागमजनितकामेन यागाभिलाषेण निर्वर्त्य हि काम्यनिष्टोमादि । कैवल्यं तु सकलविशेषगुणोच्छेदविशिष्टात्मस्वरूपं निर्वाणम् । न च विपर्ययज्ञानप्रध्वंसादिक्रमेण तद्विशिष्टात्मस्वरूप निर्वाणस्य तत्त्वज्ञानकार्यत्वादनित्यत्वं वाच्यम्। यतो विशेषगुणोच्छेदस्यानित्यत्वमापाद्यते, तद्विशिष्टात्मनो वा ? १० न तावद्विशेषगुणोच्छेदस्यः अस्य प्रध्वंसाभावरूपत्वात् । कार्यवस्तुनो ह्यनित्यत्वं प्रसिद्धम् । तद्विशिष्टात्मनश्च वस्तुत्वेपि कार्यत्वाभावान्नानित्यत्वम् । न च बुद्ध्यादिविनाशे गुणिनस्तथाभावो युक्तः; तैयोरत्यन्तभेदात् । तैत्तादात्म्ये त्वयं दोषः स्यादेव ।
३१०
अथ मोक्षावस्थायां चैतन्यस्याप्युच्छेदान्न कृतबुद्ध्यस्तत्र प्रव१५ र्त्तन्ते इत्यानन्दरूपो मोक्षोऽभ्युपगन्तव्यः
1
"आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यंते" इत्यागमात् । 'आत्मा सुखखभावोऽत्यन्त प्रियैबुद्धिविषयत्वात्, अनन्ये परतयोपादीयमानत्वाच्च । यद्यदेवंविधं तत्तत्सुखखभावम् यथा वैषयिकं सुखम्, तथा चात्मा एवंविधः, तस्मात्सुखस्व२० भावः' इत्यनुमानाच्चास्यानन्दस्वभावताप्रतीतिः; इत्यप्यसाम्प्रतम् ; यतस्तत्सुखं नित्यम्, अनित्यं वा ? न तावदनित्यम्; तत्स्वभावतयात्मनोप्यनित्यत्वप्रसङ्गात् । नित्यं चेत् तत्संवेदनमपि नित्यम्,
१ अनुष्ठानैः । २ मनुष्यः । ३ विस्तारयेत् । ४ उत्कृष्टविज्ञानः । ५ मोक्षम् । ६ ( मूलपाठस्त्वत्र ' केवलं ' इति । अनेन त्रिमात्रिकाक्षरेण छन्दोभङ्गः स्यादिति 'परं ' शब्दो नियोजितः । केवलशब्दस्य परशब्दोर्थ: टिप्पण्यां लिखितश्च ) । ७ निष्पाद्यमनुष्ठानम् । ८ मिथ्याज्ञान । ९ निस्स्वरूपत्वात् । १० गुणगुणिनोः । ११ गुणगुणिनोः । १२ गुणविनाशे गुणिविनाशलक्षणः । १३ वेदान्ती भास्करीयः । १४ बुद्धेः । १५ विनाशात् । १६ प्रेक्षावन्तः । १७ वैशेषिकेण । १८ आत्मनः । १९ व्यक्तीक्रियते । २० संसारिमुक्तात्मनोः साधारणमनुमानम् । २१ पुत्रादिशरीरेण व्यभिचारपरिहारार्थमत्यन्तपदोपादानम् । २२ आत्मन: । २३ वनिताशरीरेण व्यभि• चारपरिहारार्थमनन्यपरतयेत्युक्तम् । २४ स्वप्रधानत्वेनेत्यर्थः । २५ अनन्यपरतयोपादीयमानत्वादिति कोर्थः ? आत्मन आत्मनि लीनतया स्वस्वरूपस्योपादीयमानत्वं ग्राह्यमाणत्वं यस्यात्मन इति । २६ वैषयिकसुख प्रकारेण २७ संसारावस्थायां मुक्तावस्थायां च ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org