________________
सू० २।१२] प्रकृतिकर्तृत्ववादः
२९५ सतः कार्यत्वासम्भवात्कथञ्चिदसत्कार्यवादे एव चोपादानग्रहणादित्यादेहेतुचतुष्टयस्य विरुद्धता साध्यविपर्ययसाधनात् । तन्नो. त्पत्तेः प्राकारण(णे)कार्यसद्भावसिद्धिः। __यच्चोक्तम्-मेदानां परिमाणादित्यादिहेतोः कारणं च प्रधानमेवैकं सिद्ध्यति; तदप्युक्तिमात्रम् ; 'भेदानां परिमाणात्' इत्यस्यै-५ ककारणपूर्वकत्वेनाविनाभावासिद्धेः, अनेककारणपूर्वकत्वेप्यस्याविरोधात् । कारणमात्रपूर्वकत्वेनैव हि तस्याविनाभावः, तत्साधने च सिद्धसाधनम् । _ 'भेदानां समन्वयदर्शनात्' इति चासिद्धम् ; न खलु सुखदुःखमोहसमन्वितं प्रमाणतः प्रसिद्धम् , शब्दादिव्यक्तस्याचेतन-१० तया चेतनसुखादिसमन्वयविरोधात् । प्रयोगः-ये चैतन्यरहिता न ते सुखादिसमन्वयाः यथा गगनाम्भोजादयः, चैतन्यरहिताश्च शब्दादय इति ।
ननु चैतन्येन सुखादिसमन्वयस्य यदि व्याप्तिः प्रसिद्धा, तदा तन्निवर्तमानं शब्दादिषु सुखादिसमन्वयत्वं निवर्तयेत् । न १५ चासौ सिद्धा, पुरुषस्य चेतनत्वेपि सुखादिसमन्वयासिद्धेः; इत्यप्यपेशलम् ; स्वसंवेदनसिद्धिप्रस्तावे सुखादिखभावतयात्मनः प्रसाधनात् ।
यच्चान्यदुक्तम्-प्रसादतापदैन्यादिकार्योपलम्भात्प्रधानान्वितत्वसिद्धिः; तदप्ययुक्तम् ; अनेकान्तात् , कापिलयोगिनां हि पुरुषं २० प्रकृतिविर्भक्तं भावयतां पुरुषमालम्ब्य स्वभ्यस्तयोगानां प्रसादो भवति प्रीतिश्च, अनभ्यस्तयोगानां क्षिप्रतरमात्मानमपश्यतामुद्वेगः, प्रकृत्या जडमतीनां मोहो जायते, न चासौ पुरुषः प्रधा. नान्वितः परिष्टः । सङ्कल्पात्प्रीत्याधुत्पत्तिन पुरुषादिति शब्दादिष्वपि समानम् । सङ्कल्पमात्रभावित्वे च प्रीत्यादीनामात्मरूप-२५ ताप्रसिद्धिः, सङ्कल्पस्य ज्ञानरूपत्वात् , ज्ञानस्य चात्मधर्मतया वसंवेदनसिद्धिप्रस्तावे प्रतिपादितत्वात् इत्यलमंतिप्रसङ्गेन।
अस्तु वा प्रीत्यादिसमन्वयो व्यक्ते, तथापि न प्रधानप्रसिद्धिः, साधनस्यान्वयासिद्धेः। न खलु यथाभूतं त्रिगुणात्मकमेकं नित्यं व्यापि चास्य कारणं साधयितुमिष्टं तथाभूतेन केचिद्धेतोः प्रति-३०
१ पर्यायरूपतया । २ परमते सर्वथा सत्कार्य साध्यम् । ३ कथञ्चिदसत्कार्यस्य । ४ शब्दादिव्यक्तम् । ५ तथा इति मूलपुस्तके पाठः। ६ भिन्नम् । ७ मनसः । ८ सङ्कल्पात्प्रीत्यादिहेतुः शब्दादिरिति । ९ ज्ञानस्यात्मधर्मत्वसमर्थनविस्तरेण । १० समन्वयदर्शनादित्यस्य । ११ व्याप्स्यसिद्धेः। १२ दृष्टान्ते ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org