________________
सू० २।१२] ईश्वरवादः :
.२८३ कालभाविसकलकार्यजननसमर्थश्चैकस्वभावतयाभ्युपगतो महेश्वर इति । तदा तदजनने वा तजननसामर्थ्याभावः, यद्धि यदा यन्न जनयति न तत्तदा तजननसमर्थवभावम् यथा कुसूलस्थं बीजमकरमजनयन्न तजननसमर्थस्वभावम् , न जनयति चोत्तरकालभावि सकलं कार्य पूर्वकार्योत्पत्तिसमये महेश्वर इति। ५
तजननसमर्थखभावोप्यसौ सहकार्यऽभावात्तथा तन्न जनयति; इत्यपि वार्तम्। समर्थखभावस्यापरापेक्षाऽयोगात् । 'समर्थखभावश्चापरापेक्षश्च' इति विरुद्धमेतत्, अनधेियाऽप्र. हेयोतिशयत्वात्तस्य ।
किञ्च, एते सहकारिणः किं तदायत्तोत्पत्तयः, अतदायत्तोत्प.१० त्तयो वा? प्रथमपक्षे किं नैकदैवोत्पद्यन्ते ? तदुत्पादकान्यसहकारिवैकल्याञ्चेदनवस्था । तथा चास्यापरापरसहकारिजनने एवोपक्षीणशक्तिकत्वान्न प्रकृतकार्ये व्यापारः। बीजाडरादिवदनादित्वात्तत्प्रवाहस्य नानवस्था दोषायेत्यभ्युपगमे महेश्वरकल्पनावैयर्थ्यम् , वसामय्यधीनोत्पत्तितया पूर्वपूर्वसामग्रीविशेषवशा-१५ दृपरापराखिलकार्योत्पत्तिप्रसिद्धेः। अथातदायत्तोपत्तयः; तर्हि तैरेव कार्यत्वादिहेतवोऽनैकान्तिकाः इति।
ऐतेन 'महाभूतादि व्यक्तं चेतनाधिष्ठितं प्राणिनां सुखदुःखनिमित्तं रूपादिमत्त्वात्तुर्यादिवत्' इत्यादीनि वार्तिककारादिभिरुपन्यस्तप्रमाणानि निरस्तानि; यादृशं हि रूपादिमत्त्वमनित्यत्वं २० च चेतनाधिष्ठितं वास्यादौ प्रसिद्धं तादृशस्य क्षित्यादावसिद्धेः। रूपादिमत्त्वमात्रस्य च चेतनाधिष्ठितत्वेन प्रतिबन्धासिद्धेः आशङ्कितविपक्षवृत्तितयाऽनैकान्तिकत्वम् । प्रतिबन्धाभ्युपगमे चेष्टविपरीतसाधनाद्विरुद्धमित्यादि पूर्वोक्तं सर्वमत्रापि योजनीयम् ।
किञ्च, ईश्वरबुद्धरनित्यत्वप्रसाधनात्तदभिन्नस्येश्वरस्यानित्य-२५ त्वप्रसिद्धेस्तस्याप्यपरबुद्धिमदधिष्ठितत्वप्रसङ्गः स्यादित्यनवस्था। तदनधिष्ठितत्वे वा तेनैवानेकान्तो हेतोः।
यञ्चोक्तम्-'सर्गादौ पुरुषाणां व्यवहारः' इत्यादिः तत्रोत्तरकालं प्रबुद्धानामित्येतद्विशेषणमसिद्धम् । न खलु प्रलयकाले प्रलुप्त
१ आरोपयितुमशक्योऽतिशयोऽनाधेयः । २ अन्यैः स्फोटयितुमशक्योऽतिशयोs. प्रहेयः। ३ ईश्वरानपेक्षोत्पत्तयः ४ सहकारिभिः । ५ सावयवकार्यत्वहेतुनिराकरणपरेण ग्रन्थेन । ६ भविनाभावासिद्धेः। ७ भूरुहादिवच्चेतनानधिष्ठिते महाभूतादिव्यत्ते रूपादिमत्त्वं वर्तते वास्यादिवच्चेतनाधिष्ठिते वा इति। ८ सर्वशत्वादिधर्मोपेताद्विपरीतस्यासर्वशत्वादिधर्मोपेतस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org