________________
सू० २।१२]
ईश्वरवादः
२८१
यच्चोक्तम्- 'तथा विश्वतञ्चक्षुः' इत्यागमादव्यसौ सिद्धः तद्प्युक्तिमात्रम्, अन्योन्याश्रयानुषङ्गात् - प्रसिद्धप्रामाण्यो ह्यागमस्तैत्प्रसाधको नान्यथातिप्रसङ्गात् ततस्तत्प्रामाण्यप्रसिद्ध महेश्वरसिद्धिः, तत्सिद्धौ च तत्प्रणीतत्वेनागमप्रामाण्यप्रसिद्धिः । अन्येश्वरप्रणीतागमात्तत्सिद्धौ तस्याप्यन्येश्वरप्रणीतागमात्सिद्धावी- ५ श्वरागमानवस्था । पूर्वेश्वरप्रणीतागमात्तत्सिद्धौ परस्पराश्रयः । स्वप्रणीतागमात्तत्सिद्धौ चान्योन्यसंश्रयः । नित्यस्य त्वागमस्य परैः प्रामाण्यं नेष्यते महेश्वरकल्पनानर्थक्यप्रसङ्गात् प्रामाण्यस्योत्पत्तौ ज्ञप्तौ चेश्वरसद्भाव स्याकिञ्चित्करत्वात् ।
यदप्युक्तम्- कारुण्याच्छरीरादिसर्गे प्राणिनां प्रवर्त्ततेः तद- १० प्ययुक्तम्: सुखोत्पादकस्यैव शरीरादिसर्गस्योत्पादकस्य प्रस ङ्गात् । न हि करुणावतां यातनाशरी रोत्पादकत्वेन प्राणिनां दुःखोत्पादकत्वं युक्तम् । धर्माधर्म सहकारिणः कर्त्तृत्वात्सुखवदुःखस्याप्युत्पादको सौ, फलोपभोगेन हि तयोः प्रक्षयादपवर्गः प्राणिनां स्यात् इति करुणयापि तद्विधाने प्रवृत्यविरोधः इत्य- १५ प्यसङ्गतम् ; तयोरीश्वरानायत्तत्वे कार्यत्वे च आभ्यामेव कार्यत्वादेरनैकान्तिकत्वप्रसङ्गात्, तदुत्पत्तौ तस्याव्यापारे च विनाशेष्यव्यापारोस्तु, कारणान्तरोत्पन्न सुखदुःखलक्षणफलोपभोगेनानयोः प्रक्षयसम्भवात् । न हीश्वरस्यापि तत्फलोत्पादनादन्यत्तयोः क्षयकर्त्तृत्वम् ।
२०
"
किञ्च, धर्माधर्मौ निष्पाद्य पुनस्तयोः क्षयकरणे किमुत्पत्तिकरणप्रयासेन ? न हि प्रेक्षाकारी खात्यो पुनः समीकरणन्यायेनात्मानमायासयति "प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्" [ ] इति प्रसिद्धेश्च । अन्यथा प्रक्षालिताशुचिमोदकपरित्या
गन्यायानुसरणप्रसङ्गः ।
२५
अपवर्गविधानार्थं चास्य प्रवृत्तौ कथमपूर्वकर्मसञ्चयकर्त्तृत्वम् ? तत्सहकारिणश्चास्य सुखदुःखोत्पादकशरीरोत्पादकत्वे वरं तत्र्फेलोपभोक्तृप्राणिगणस्यैव तत्सव्यपेक्षस्य तदुत्पादकत्वमस्तु किमदृष्टेश्वरपरिकल्पनया ? सर्वत्र कार्येऽदृष्टस्य व्यापारात् । तथाहि
१ ईश: । २ ईश्वर । ३ अप्रसिद्धप्रामाण्याद गमादन्येषामीश्वराभावः स्याद्यदि । ४ यतः प्रसिद्धप्रामाण्यागमः ईश्वरप्रतिपादकः । ५ नैयायिकः I ६ अन्यथा । ७ तीब्रवेदनाजनक । ८ सुखदुःख । ९ महेश्वरस्य । १० ईशकारणरहितत्वे । ११ भूमिं खनित्वा । १२ तयोर्धर्माधर्मयोः । १३ अप्रसिद्धस्य । १४ निखिलं कार्य धर्मि प्राण्यदृष्टपूर्वकं भवतीति साध्यो धर्मः तदुपभोग्यत्वात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org