________________
सू० २।१२] सर्वज्ञत्ववादः
२५९ कारव्यवहितरूपाद्युपलम्भो न स्यात्स्वात्मनि तथाऽनुपलम्भात् । प्राण्यन्तरे स्वात्मन्यनुपलब्धस्यानालोकान्धकारव्यवहितरूपाद्युपलम्भलक्षणातिशयस्य सम्भवे सूक्ष्माधुपलम्भलक्षणातिशयोपि स्यात् । जात्यन्तरत्वं चोभंयत्र समानम् । अभ्युपगम्य चाक्षजत्वं सर्वज्ञज्ञानस्यातीन्द्रियार्थसाक्षात्कारित्वं समर्थितं नार्थतः,५ तज्ज्ञानस्य धातिकर्मचतुष्टयक्षयोद्भूतत्वात् ।
यश्चास्य ज्ञानं चक्षुरादिजनितं वेत्याद्य भिहितम् । तदप्यचारु; चक्षुरादिजन्यत्वेऽप्यनन्तरं धर्मादिग्राहकत्वाविरोधस्योक्तत्वात् ।
यश्चाभ्यासजनितत्वेऽभ्यासो हीत्यायुक्तम्। तदप्ययुक्तम्। "उत्पादव्ययध्रौव्ययुक्तं सत्" [तत्त्वार्थसू० ५।३०] इत्यखिलार्थ-१० विषयोपदेशस्याविसंवादिनो ज्ञानस्य च सामान्यतः सम्भवात् । न च तज्ज्ञानव॑त एवाशेषज्ञत्वाद्ध्यर्थोभ्यासः; तस्य सामान्यतोऽस्पष्टरूपस्यैवाविर्भावात्, अभ्यासस्य तत्प्रतिबन्धकापायसहायस्याशेषविशेषविषयस्पष्टज्ञानोत्पत्ती व्यापारात् । नाप्यन्योन्याश्रयः; अभ्यासादेवाखिलार्थविषयस्पष्टज्ञानोत्पत्तेरनभ्युपँगमात् । १५
शब्दप्रभवपक्षेप्यन्योन्याश्रयानुषङ्गोऽसङ्गतः, कारकपक्षे तदसम्भवात् । पूर्वसर्वशप्रणीतागमप्रभवं होतस्याशेषार्थशानम्, तस्याप्यन्यसर्वज्ञागमप्रभवम् । न चैवमनवस्थादोषानुङ्गः, बीजाकुरवदनादित्वेनाभ्युपगमादागमसर्वशपरम्परायाः।
यच्चानुमानाविर्भावितत्वपक्षे सम्बन्धासिद्धरित्युक्तम् । तदस-२० मीचनम् ; प्रमाणान्तरात्सम्बन्धसिद्धेरभ्युपगमात् । न खलु कश्चित्तस्यागोचरोस्ति सर्वत्रेन्द्रियातीन्द्रिय विषये प्रवृत्तेरन्यथा तत्रा. नुमानाप्रवृत्तिप्रसङ्गात् , तस्य तन्निबन्धनत्वात् ।।
यच्चानुमानागमज्ञानस्य चास्पष्टत्वादित्यभिहितम् । तदप्यसमीक्षिताभिधानम् ; न हि सर्वथा कारणसदृशमेव कार्य विलक्षण-२५ स्थाप्यकुरादेबीजादेरुत्पत्तिदर्शनात् । सर्वत्र हि सामग्रीभेदात्कार्यभेदः । अत्राप्यागमादिक्षानेनाभ्यासप्रतिबन्धकापायादिसामग्रीसहायेनासादिताशेषविशेषवैशा विज्ञानमाविर्भाव्यते। भावनाबलाद्वैशये कामाद्युपप्लुतज्ञानवत्तस्याप्युपप्लुतत्वप्रसङ्गः, १ नक्कञ्चरादौ सर्वशलक्षणे प्राण्यन्तरे च। २ परमार्थतः। ३ सर्वज्ञस्य । ४ पुरुषस्य । ५ अशेषविशेषविषयस्पष्टशान। ६ केवलात् । ७ जैनैः । ८ उत्तरसर्वइस । ९ तर्कलक्षणात् । १० इन्द्रियतीन्द्रियाविषये प्रवृत्तिने स्यादि । ११ सर्वथे। १२ आदिपदेनानुमानम् । १३ आदिपदेन देशकालादि । १४ अशेषशशानस्य ।
Jain Educationa International
For Personal and Private Use Only
___www.jainelibrary.org