________________
२५४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० न च वक्तव्यम्-'पुनःपुनर्भाव्यमानं भावनाप्रकर्षपर्यन्ते योगिज्ञानरूपतामासादयत्तद्वैशद्यभार भविष्यति । दृश्यते चाभ्यासबलात्कामशोकायुपप्लुतज्ञानस्य वैशद्यम्' इति; तद्वदस्याप्युपप्लुत. त्वप्रसङ्गात्। ५ किञ्च, अस्याखिलार्थग्रहणं सकलज्ञत्वम्, प्रधानभूतकतिपयार्थग्रहणं वा? तत्राद्यपक्षे क्रमेण तद्ब्रहणम् , युगपद्वा? न तावक्रमेण, अतीतानागतवर्त्तमानार्थानां परिसमाप्त्यभावात्तज्ज्ञानस्याप्यपरिसमाप्तेः सर्वज्ञत्वायोगात् । नापि युगपत् परस्परविरु
द्धशीतोष्णाद्यर्थानामेकत्र ज्ञाने प्रतिभासासम्भवात् । सम्भवे वा १० प्रतिनियतार्थखरूपप्रतीतिविरोधः।
किञ्च, एकक्षण एवाशेषार्थग्रहणाद् द्वितीयक्षणेऽकिञ्चिज्ज्ञः स्यात् । तथा परस्थरागादिसाक्षात्करणाद्रागादिमान् , अन्यथा सकलार्थसाक्षात्करणविरोधः।
नापि प्रधानभूतकतिपयार्थग्रहणम् ; इतरार्थव्यवच्छेदेन 'एते१५षामेव प्रयोजननिष्पादकत्वात्प्राधान्यम्' इति निश्चयो हि सकलार्थज्ञाने सत्येव घटते, नान्यथा । तच्च प्रागेव कृतोत्तरम् ।
कथं चातीतानागतग्रहणं तत्वरूपासम्भवाद् ? असतो ग्रहणे तैमिरिकज्ञानवत्प्रामाण्याभावः। सत्त्वेन ग्रहणेऽतीतादेवर्तमानत्वम् । तथा चान्यकालस्यान्यकालतया वस्तुनो ग्रहणात्तज्ज्ञान२० स्याऽप्रामाण्यम् ।
कथं चासौ तबाह्याखिलार्थाज्ञाने तत्कालेप्यसर्वातुं श. क्यते ? तदुक्तम्
"सर्वज्ञोयमिति ह्येतत्तत्कालेपि बुभुत्सुभिः। तज्ज्ञानशेयविज्ञानरहितैर्गम्यते कथम् ॥१॥ कल्पनीयाश्च सर्वज्ञा भवेयुर्बहवस्तव । य एव स्यादसर्वज्ञः स सर्वशं न बुद्धयते ॥२॥ सर्वज्ञो नावबुद्धश्च येनैव स्यान्न तं प्रति । तद्वाक्यानां प्रमाणत्वं मूंलाज्ञानेऽन्यवाक्यवत् ॥ ३॥"
[मी० श्लो० चोदनासू० श्लो० १३४-३६ ] इति ।
१ आगमानुमानजनितास्पष्टं ज्ञानम् । २ व्याहत। ३ सर्वशशानस्य । ४ मोक्षलक्षण । ५ सर्वशः। ६ तेन सर्वज्ञज्ञानेन । ७ तर्हि सर्वक्षेनैव सर्वशो शायते इत्युक्ते सत्याह । ८ यतः। ९ मूलस्य वाक्यकारणस्य सर्वशलक्षणस्य। १० अन्यस्य रथ्यापुरुषस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org