SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ २० २५२ प्रमेयकमलमार्त्तण्डे [ २. प्रत्यक्षपरि० "यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिद्देष्टौ स्यान्न रूपे श्रोत्रवृत्तितः (ता) ॥ १ ॥ [मी० लो० चोदनासू० श्लो० ११४] १५ [ येपि सातिशया दृष्टाः प्रज्ञामेधादिभिर्नराः । स्तोकस्तोकान्तरत्वेन न त्वतीन्द्रियदर्शनात् ॥ २ ॥ [ प्राज्ञोपि हि नरः सूक्ष्मानर्थान्दृष्टुं क्षमोपि सन् । सजातीरनतिक्रामन्न तिशेते परान्नरान् ॥ ३ ॥ ऍकशास्त्रविचारेषु दृश्यतेऽतिशयो महान् । न तु शास्त्रान्तरज्ञानं तन्मात्रेणैव लभ्यते ॥ ४ ॥ [ ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये ॥ ५ ॥ [ ज्योतिर्विश्च प्रकृष्टोपि चन्द्रार्कग्रहणादिषु । न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥ ६॥ [ तथा वेदेतिहासादिज्ञानातिशयवानपि । 93 1 1 1 1 ] न स्वर्गदेवताऽपूर्व प्रत्यक्षीकरणे क्षमः ॥ ७ ॥ [ देश हस्तान्तरं व्योम्नि यो नामोत्लुत्य गच्छति । न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥ ८ ॥" [ ] इति । ] Jain Educationa International प्रसङ्गविपर्ययाभ्यां चास्यशेषार्थविषयत्वं बाध्यते; तथाहि२० सर्वज्ञस्य ज्ञानं प्रत्यक्षं यद्यभ्युपगम्यते तदा तर्द्धर्मादिग्राहकं न स्याद्विद्यमानोपलम्भनत्वात् । विद्यमानोपलम्भनं तत् सत्सम्प्रयोगजत्वात् । सत्सम्प्रयोगजं तत्, प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवत् । तद्धर्मादिग्राहकं चेत् न विद्यमानोपलम्भनं धर्मादेरविद्यमानत्वात् । तवे चासत्सम्प्रयोगजत्वे चाऽप्रत्यक्षशब्देवा२५ च्यत्वम् । F १ गृछ्रादीन्द्रिये । २ क्रियमाणायाम् । ३ इन्द्रियाणामतिशयो नास्ति चेन्मा भूत्पुरुषणां भविष्यतीत्युक्ते सत्याह । ४ अर्थग्रहणशक्तिः प्रज्ञा । ५ मेघा पाठग्रहणशक्तिः । ६ पूर्वोक्तं भावयति । ७ तत्र दृष्टान्तमाह । ८ दृष्टान्तं भावयति । ९ न्यासपर्यन्तम् । १० प्रकृष्टा भवति । ११ पुनरपि दृष्टान्तं भावयति । १२ चकारो दृष्टान्तसमुच्चये । १३ अदृष्ट | १४ लोकप्रसिद्धं दृष्टान्तमाह । १५ प्रसङ्गविपर्यययोर्लक्षणमुत्तरपक्षे वदिष्यति । १६ सर्वशज्ञानस्य । १७ जैनादिभिः सर्वशवादिभिः । १८ पुण्यपापा | १९ इति प्रसङ्गेन तस्याशेषार्थविषत्वं बाध्यते । २० तस्य परोक्षत्वमित्यर्थः । २१ इति विपर्ययेण तस्याशेषार्थविषयत्वं बाध्यते । २२ अविद्यमानोपलम्भनत्वे । For Personal and Private Use Only 1 इमा अशेषाः कारिकाः तत्त्वसंप्रहे ( पृ० ८२५-२६) पूर्वपक्षतया उपलभ्यन्ते । www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy