________________
11
सू० २।४] चक्षुःसन्निकर्षवादः
२२५ अथ 'चक्षुस्तैजसं रूपादीनां मध्ये रूपस्य प्रकाशकत्वात् प्रदीपवत्' इत्यनुमानान्तरात्तत्सिद्धिः, न; अत्रापि गोलकस्य भासुररूपोष्णस्पर्शरहितस्य तैजसत्वसाधने पक्षस्य प्रत्यक्षबाधा, 'न तैजसं चक्षुः तमःप्रकाशकत्वात् , यत्पुनस्तैजसं तन्न तमःप्रकाशकं यथालोकः' इत्यनुमानबाधा च । प्रसाधयिष्यते च ५ 'तमोवत' इत्यत्र तमसः सत्त्वम् । प्रदीपवत्तैजसत्वे चास्यालोकापेक्षा न स्यादुष्णस्पादितयोपलम्भश्च स्यात्, न चैवम् , तदपेक्षतया मनुष्यपारावतबलीवर्दादीनां धवललोहितकालरूपतयानुष्णस्पर्शखभावतया चास्योपलम्भात् । तन्न गोलकं चक्षुः ।
नाप्यन्यत्; तब्राहकप्रमाणाभावेनाश्रयासिद्धत्वप्रसङ्गाद्धेतोः । १० 'रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्' इति हेतुश्च जलाञ्जनचन्द्रमाणिक्योंदिभिरनैकोन्तिकः । तेषामपि पक्षीकरणे पक्षस्य प्रत्यक्षबाधा, सर्वो हेतुरव्यभिचारी च स्यात्। न च जलाधन्तर्गतं तेजोद्रव्यमेव रूपप्रकाशकमित्यभिधातव्यम् ; सर्वत्र दृष्टहेतुवैफल्या. पत्तेः । तथा च दृष्टान्तासिद्धिः, प्रदीपादावप्यन्यस्यैव तत्प्रकाश-१५ कस्य कल्पनाप्रसङ्गात् । प्रत्यक्षबाधनमुभयत्र । निराकरिष्यते च "नार्थालोको कारणम्" [परी० २।६] इत्यत्रालोकस्य रूपप्रकाशकत्वम् ।
किञ्च, रूपप्रकाशकत्वं तत्र ज्ञानजनकत्वम् । तच्च कारणविषयवादिनो घटादिरूपस्याप्यस्तीत्यनेन हैतोर्व्यभिचारः । 'करणत्वे २०
१ रूपस्येत्युच्यमाने आत्ममनोभ्यां व्यभिचारस्तत्परिहारार्थ रूपस्यैवेत्युक्तम् । रूपस्यैव प्रकाशकत्वादित्युच्यमाने असिद्धत्वम् । कुतः ? द्रव्यद्रव्यत्वयोरपि चक्षुषा प्रकाशनात् । तत्परिहारार्थ रूपादीनां मध्ये इत्युक्तम् । अनेन द्रव्यद्रव्यत्वयोः परिहारः-रूपादीनां गुणानामेव निर्धारितत्वात । २ इति यदुक्तं तन्नेत्यर्थः। ३ नालोको कारणं परिच्छेद्यत्वात्तमोवदित्यस्य सूत्रस्य व्याख्यावसरे। ४ चक्षुषः । ५ आदिपदेन स्फोयादि । ६ कृष्ण । ७ धर्मि। ८ रश्मिरूपम् । ९ रश्मिरूपचक्षुषः। १० रूपस्याप्येते प्रकाशकाः। ११ आदिपदेन काचादिभिरपि । १२ यद्पादीनां मध्ये रूपस्येव प्रकाशकं तत्तैजसमित्युक्ते जलाजनादिभिहेंतुर्व्यभिचारी स्यादित्यर्थः । १३ कायें। १४ कारण। १५ पिशाचादेः। १६ रूप। १७ जलादेरेव रूपप्रकाशकत्वोपलम्भादन्यस्य । रूपप्रकाशकत्वकल्पनेपि । १८ साधन विकलो दृष्टान्त इति निरूपितमनेन। १९ यत्कारणं ज्ञानं जनयति तदेव शानस्य विषयो भवतीति । २० शानस्स। २१ नैयायिकस्य । २२ घटादिरूपं रूपशानजनकं न तु तैजसम् । २३ प्रकाशकत्वादित्यस्य । तैजसत्वसाध्यस्याभावो(वे)पि साधनमस्ति यतः । २४ चक्षुस्वैजसं करणत्वे सति रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वादियुक्तपीत्यर्थः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org