________________
सू० २।४] चक्षुःसन्निकर्षवादः
२२१ नेन्द्रियादिवत् । ननु किमिदं बाहोन्द्रियत्वं नाम-बहिराभिमुख्यम् , बहिर्देशावस्थायित्वं वा? प्रथमपक्षे मनसानेकान्तः, तस्याप्राप्यकारित्वेपि बहिरर्थग्रहणाभिमुख्येन बाह्येन्द्रियत्वसिद्धः। द्वितीयपक्षे त्वसिद्धो हेतुः, रश्मिरूपस्य चक्षुषो बहिर्देशावस्थायित्वस्य भवतानभ्युपगमात् । गोलकान्तर्गततेजोद्रव्याश्रया हि५ रश्मयस्त्वन्मते प्रसिद्धाः । गोलकरूपस्य तु चक्षुषो बहिर्देशावस्थायिनो हेतुत्वे पक्षस्य प्रत्यक्षवाधनात्कालात्ययापदिष्टत्वम् ।
न च बाह्यविशेषणेन मनो व्यवच्छेद्यम्, न हि तत् सुखादौ संयुक्तसमवायादिसम्बन्धं व्याप्तौ च सम्बन्धसम्बन्धमन्तरेण ज्ञानं अँनयति रूपादौ नेत्रादिवत् । अथासौ सम्बन्ध एव न १० भवति; तर्हि नेत्रादीनां रूपादिभिरप्यसौ न स्यात्, तस्यापि सम्बन्धसम्बन्धत्वात् । तथा चेन्द्रियत्वाविशेषेपि मनोऽप्राप्तार्थप्रकाशकं तथा बाह्येन्द्रियत्वाविशेषेपि चक्षुः किं नेष्यते ? अथात्र हेतुभावात्तन्नेष्यते; अन्यत्रापि 'इन्द्रियत्वात्' इति हेतुः केन वार्येत? ततो मनसि तत्साधने प्रमाणबाधनमन्यत्रापि संमानम् ।१५
चक्षुश्चात्र धर्मित्वेनोपात्तं गोलकस्वभावम् , रश्मिरूपं वा? तत्राद्यविकल्पे प्रत्यक्षबाधा; अर्थदेशपरिहारेण शरीरप्रदेशे एवास्योपलम्भात्, अन्यथा तेंद्रहितत्वेन नयनपक्ष्मप्रदेशस्योपलम्भ: स्यात् । अथ रश्मिरूपं चक्षुः; तर्हि धर्मिणोऽसिद्धिः । न खलु रश्मयः प्रत्यक्षतः प्रतीयन्ते, अर्थवेत्तत्र तत्स्वरूपाप्रतिभासनात्,२० अन्यथा विप्रतिपत्त्यभावः स्यात् । न खलु नीले नीलतयानुभूयमाने कश्चिद्विप्रतिपद्यते। किञ्च, इन्द्रियार्थसन्निकर्षजं प्रत्यक्षं #वन्मते । न चार्थदेशे
१ नैयायिकेन । २ चक्षुःप्राप्तार्थप्रकाशकं बहिर्देशावस्थायित्वादित्यस्य । ३ प्रत्यक्षादिप्रमाणबाधिते पक्षे प्रवर्तमानो हेतुः कालात्ययापदिष्टः। ४ कर्तृ। ५ मनसा संयुक्त आत्मनि सुखादेस्समवाय इति । ६ मन आत्मनात्मा चाशेषपदार्थैः साध्यसाधनरूपैस्सम्बध्यते इति। ७ इति सिद्धं प्रत्यक्षादिप्रमाणबाधनम्। ८ नेत्रादिना संयुक्त घटादौ रूपादेस्सम्बन्धसम्बन्धो यथा। ९ रूपादिषु नेत्रादीनां सम्बन्धसम्बन्धस्य । १० भवन्मताङ्गीकारेण। ११ मनसि। १२ मनः प्राप्तार्थप्रकाशकमिन्द्रियत्वात्त्वगादिवदिति । १३ प्राप्तार्थप्रकाशकत्वस्य । १४ आगमप्रमाणबाधा। १५ चक्षुषि । १६ प्रत्यक्षप्रमाणवाधनम्। १७ अनुमाने। १८ चक्षुः प्राप्तार्थप्रकाशकं बाह्येन्द्रियत्वात् । १९ गोलक। २० अर्थस्य यथा प्रतिभासनम् । २१ रश्मिस्वरूपं प्रतिभासते चेत् । २२ रश्मिरूपं चक्षुर्गोलकरूपं वेति । २३ रश्मिरूपं चक्षुरित्यस्मिन्पक्षे दूषणान्तरमाह । २४ नेयायिक ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org