________________
सू० २।२] अभावस्य प्रत्यक्षादावन्तर्भावः २१५ विपत्तिः स प्रध्वंसः, मृद्रव्यानन्तरोत्तरपरिणामः । तस्य हि तुच्छस्वभावत्वे मुद्रादिव्यापारवैयर्थ्य स्यात् । स हि तद्व्यापारेणे घटादेर्भिन्नः, अभिन्नो वा विधीयते ? प्रथमपक्षे घटादेस्तदवस्थत्वप्रसङ्गात् 'विनष्टः' इति प्रत्ययो न स्यात् । विनाशसम्बन्धाद् 'विनष्टः' इति प्रत्ययोत्पत्तौ विनाशतद्वतोः कश्चित्स-५ म्बन्धो वक्तव्यः स हि तादात्म्यलक्षणः, तदुत्पत्तिखरूपो वा स्यात्, तद्विशेषणविशेष्यभावलक्षणो वा? तत्र न तावत्तादात्म्यलक्षणोसो घटते; तयोर्भेदाभ्युपगमात् । नापि तदुत्पत्तिलक्षणः, घटादेस्तंदकारणत्वात् , तस्य मुद्रादिनिमित्तकत्वात् । तदुभयनिमित्तत्वाददोषः; इत्यप्यसुन्दरम्; मुद्रादिवद्विनाशो-१० त्तरकालमपि घटादेरुपलम्भप्रसङ्गात् । तस्य स्वविनाशं प्रत्युपादानकारणत्वान्न तत्काले उपलम्भः; इत्यप्यसमीचीनम् ; अभावस्य भावान्तरस्वभावताप्रसङ्गात् तं प्रत्येवास्योपादान. कारणत्वप्रसिद्धः । तयोर्विशेषणविशेष्यभावः सम्बन्धः, इत्यप्यसत्; परस्परमसम्बद्धयोस्तदसम्भवात् । सम्बन्धान्तरेण १५ सम्बद्धयोरेव हि विशेषणविशेष्यभावो दृष्टो दण्डपुरुषादिवत् । न च विनाशतद्वतोः सम्बन्धान्तरेण सम्बद्धत्वमस्तीत्युक्तम् । तन्न तद्व्यापारेण भिन्नो विनाशो विधीयते । अभिन्नविनाश विधाने तु 'घटादिरेव तेन विधीयते' इत्यायातम् । तच्चायुक्तम्। तस्य प्रांगेवोत्पन्नत्वात् ।
२० ननु प्रध्वंसस्योत्तरपरिणामरूपत्वे कपालोत्तरक्षणेषु घटप्रध्वंसस्याभावात्तस्य पुनरुज्जीवनप्रसङ्गः, तदप्यनुपपन्नम्; कारणस्य कार्योपमर्दनात्मकत्वाभावात् । कार्यमेव हि कारणोपमर्दनात्मकत्वधर्माधारतया प्रसिद्धम् । ___ यच्च कपालेभ्योऽभावस्यार्थान्तरत्वं विभिन्नकारणप्रभवतयो-२५ च्यते; तथाहि-उपादानघटविनाशो बलवत्पुरुषप्रेरितमुद्गराद्यभिघातादवयवक्रियोत्पत्तेरवयवविभागतः संयोगविनाशादेवोत्प
१ मृद्रव्यं कुशूलरूपं तस्यानन्तरपरिणामो घटः । तस्योत्तरपरिणामस्तु कपाललक्षणः । २ कळ । ३ प्रध्वंसाभावविशिष्टो घट इति । ४ परेण । ५ घटादुत्पत्तिः प्रध्वंसस्यति । ६ तं विनाशं प्रति । ७ यथा घटस्य कपालादि भावान्तरम् । ८ कपाललक्षणं भावान्तरस्वभावम् । ९ तादात्म्यतदुत्पत्तिलक्षणेन । १० मुद्गरादिव्यापारेण कर्ता । ११ घटात् । १२ द्वितीयपक्षे । १३ मुद्रादिव्यापारात्। १४ कपाल । १५ घटस्य । १६ कपाल । १७ हेतोविभिन्न कारणत्वं समर्थयति परः। १८ चलन. लक्षणायाः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org