________________
सू० २।२] शक्तिस्वरूपविचारः
२०१ विर्भाव्यते, तद्रहितेन वा? प्रथमपक्षेऽनवस्था । द्वितीयपक्षे तु मुक्तात्मवत्तस्यै तजनकत्वासम्भवः।
किञ्च, कथं वा महेश्वरस्याखिलकार्यकारित्वम् ? सहकारिरहितस्य तत्कारित्वे सकलकार्याणामेकदैवोत्पत्तिप्रसङ्गात् । तत्सहित. स्य तत्कारित्वे तु तेपि सहकारिणोऽन्यसहकारिसहितेने कर्त्तव्या ५ इत्यनवस्था। पूर्वपूर्वादृष्टसहकारिसमन्वितयोरात्मेश्वरयोः उत्तरोत्तरादृष्टाखिलकार्यकारित्वे निखिलभावानांपूर्वपूर्वशक्तिसमन्वितानामुत्तरोत्तरशक्त्युत्पादकत्वमस्तु, अलं मिथ्याभिनिवेशेन ।
यच्चान्यदुक्तम्-शक्तिः शक्तिमतो भिन्नाऽभिन्ना वेत्यादिः तदप्ययुक्तम् । तस्यास्तद्वतः कथञ्चिद्भेदाभ्युपगमात् । शक्तिमतो हि १० शक्तिर्भिन्ना तत्प्रत्यक्षत्वेप्यस्याः प्रत्यक्षत्वाभावात् , कार्यान्यथानु. पपत्त्या तु प्रतीयमानासौ । तद्वतो विवेकेन प्रत्येतुमशक्यत्वादभिनेति।न चांत्र विरोधाद्यवतारः, तेदात्मकवस्तुनो जोत्यन्तरत्वात् मेचकज्ञानवत्सामान्यविशेषवच्चे। .............. : यत्पुनरुक्तमेकानेका वेत्यादि, तत्रार्थानामनेकैव शक्तिः ।१५ तथाहि-अनेकशक्तियुक्तानि कारणानि विचित्रकार्यत्वान्नार्थवत् । विचित्रकार्याणि वा कारणशक्तिभेदनिमित्तकानि तत्त्वाद्विभिन्नार्थकार्यवत् । न हि कारणशक्तिभेदमन्तरेण कार्यनानात्वं युक्तं रूपादिज्ञानवत्, यथैव हि कर्कटिकादौ रूपादिज्ञानानि रूपादिस्वभावभेदनिबन्धनानि तथा क्षणस्थितेरेकस्मादपि प्रदीपादेर्भा-२० वाद् वर्तिकादाहतैलशोषादिविचित्रकार्याणि तच्छक्तिभेदनिमित्तकानि व्यवतिष्ठन्ते, अन्यथा रूपादेर्नानात्वं न स्यात् । चक्षुरादिसामग्रीभेदादेव हि तज्ज्ञानप्रतिभासभेदः स्यात्, कर्कटिकादिद्रव्यं तु रूपादिस्वभावरहितमेकमनंशमेव स्यात् । चक्षुरादिबुद्धौ
१ अदृष्टान्तरपरिकल्पनया आत्मन इति पक्षे। २ संसार्यात्मनः। ३ अदृष्टरहितत्वात् । ४ अदृष्टविशेष । ५ महेश्वरेण । ६ अनवस्थाद्यापादनेन। ७ जैनैः । ८ अनि विना धूमवत् । ९ पदार्थात् । १० मेदेन। ११ शक्तेः कथञ्चिद्भेदाभेदपक्षे। १२ भेदाभेद । १३ मेदादभेदाता जात्यन्तरत्वात् । १४ दहनो दाइशक्तियुक्तो दाहान्यथानुपपत्तेः[?]। १५ स्वव्यक्तिष्वनुस्यूतत्वात्सामान्यरूपता गोत्वस्य । अश्वत्वादिभ्यो व्यावर्त्तमानत्वाद्विशेषरूपता यथा तथा सर्वत्र प्रतिपत्तव्यम् । सामान्यमेव विशेषस्तस्येव तद्वत् । १६ विचित्राणि कार्याणि येषां तानि विचित्रकार्याणि तेषां भावस्तत्त्वं तस्माद्धेतोः । १७ विचित्रकार्यत्वात् । १८ सन्दिग्धानकान्तिकत्वे सत्याह। १९ तेलशोषादिशक्तिमेदं विनापि-तैलशोषादिकार्याणि स्युरिति चेत् । २० तैलशोषादि । २१ तैलशोषादिशक्ति विनापि शक्तिभेदनिमित्तकानि यदि तैलशोषादि. कार्याणि स्युः । २२ किन्तु । २३ रूपादिखभावसमर्थनार्थ परः प्राह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org