________________
सू० २।२]
आगमविचारः
१८३
सम्बद्धं सत्तस्य गमकम् नान्यथा, सर्वस्य प्रमातुः सर्वार्थप्रत्यक्षत्वप्रसङ्गात् । अथ विषयसम्बद्धत्वाविशेषेपि प्रत्यक्षानुमानयोः सामग्रीमेदात्प्रमाणान्तरत्वम् ; शाब्दादीनामप्येवं प्रमाणान्तरत्वं किन्न स्यात् ? तथाहि-शाब्दं तावच्छब्दसामग्रीतः प्रभवति
"शब्दादुदेति यज्ज्ञानमप्रत्यक्षेपि वस्तुनि ।
शाब्दं तदिति मन्यन्ते प्रमाणान्तरवादिनः॥" [ ] इत्यभिधानात् । न चास्य प्रत्यक्षता; सविकल्पकास्पष्टस्वभावत्वात् । नाप्यनुमानता; त्रिरूंपलिङ्गाप्रभवत्वादनुमानगोचरार्थाविषयत्वाच्च । तदुक्तम्
"तस्मादन मानत्वं शाब्दे प्रत्यक्षद्भवेत् । त्रैरूप्यरहितत्वेन ताग्विषयवर्जनात् ॥१॥"
[मी० श्लो० शब्दपरि० श्लो० १८] यादृशो हि धूमादिलिङ्गजस्यानुमानस्य विषयो धर्मविशिष्टो धर्मी तादृशा विषयेण रहितं शाब्दं सुप्रसिद्धं त्रैरूप्यरहितं च । तथा हि-न शब्दस्य पक्षधर्मत्वम् ; धर्मिणोऽयोगात् । न चार्थस्यै १५ धर्मित्वम् ; तेन तस्य सम्बन्धीसिद्धेः । न चाप्रतीतेथे तद्धर्मतयाँ शब्दस्य प्रतीतिः सम्भविनी । प्रतीते चार्थे न तद्धर्मतया प्रतिपत्तिः शब्दस्योपयोगिनी, तामन्तरेणाप्यर्थस्य प्रागेव प्रतीतेः । अथ शब्दो धर्मी, अर्थवानिति साध्यो धर्मः, शब्द एव च हेतुः, न प्रतिज्ञार्थंकदेशत्वप्राप्तेः। अथ शब्दत्वं हेतुरिति न प्रति-२० ज्ञार्थंकदेशैत्वम् ; नै; शब्दत्वस्यागमकत्वात्, गोशब्दत्वस्य च निषेत्स्यमानत्वेनासिद्धत्वात् । उक्तं च
"सामान्यविषयत्वं हि पैदस्य स्थायिष्यते । १ अन्यथा चेत् । २ शब्दादीनि प्रमाणान्तराणि-सामग्रीभेदात् प्रत्यक्षादिवत् । ३ सामग्रीमेदप्रकारेण । ४ मेरुरस्तीति ज्ञानम् । आगमज्ञानमित्यर्थः (हेत्वन्तरमिदम्)। ५ जैनादयः। ६ पक्षधर्मत्वादि । ७ शब्दादुत्पन्नत्वात् । ८ ईप् । ९ अनुमेय । १० च । ११ अग्निमत्त्व। १२ पर्वतः । १३ भा । १४ गोलक्षणस्य । १५ अविनाभाव । १६ अर्थधर्मत्वेन । १७ फलवती। १८ इति चेन्न । १९ पक्षवचनं प्रतिज्ञा तस्या अर्थः पक्षस्तस्यैकदेशो धर्मी धर्मश्च । २० गोशब्दो जगति नित्यो व्यापकत्वेनैक एवेति गोशब्दत्वसामान्याभावः हेतोः। २१ इति चेन्नेत्यर्थः । २२ गोशब्दवदश्वशब्देपि शब्दत्वस्य भावादगमकत्त्वम् । २३ तस्मिन्निषेधोपि गोशब्दस्वातीतादेरेकत्वात् , नैकव्यक्तौ सामान्यमिति व्यापकत्वेनैकत्वाच्च गोशब्दत्वसामान्याभावः। २४ अर्थस्य । २५ अर्थस्य साध्यस्य शापकत्वम् । २६ गोत्त्व । २७ गवादेरागमस्य । २८ स्वग्रन्थापेक्षयाग्रे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org