________________
सू० २।२] प्रमेयद्वित्वात् प्रमाणद्वित्वविचारः १८१ सामान्यस्यापि सामान्येनैव विशेषेषु प्रतिबन्धप्रतिपत्तावनवस्थासामान्याद्धि सामान्यप्रतिपत्तौ विशेषेष्वप्रवृत्तौ पुनस्ततोऽप्यपरसामान्यप्रतिपत्तौ स एव दोषः । अतः सामान्यतदनुमानानामनवस्थानादप्रवृत्तिर्विशेषेषु स्यात् ।।
किञ्च व्यापकमेव गम्यम् अव्यभिचारस्य तत्रैव भावात् ।५ व्यापकं च कारणं कार्यस्य, स्वभावो भावस्य । तच्च स्खलक्षणमेव, अतस्तदेव गम्यं स्यात् न सामान्यमव्यापकत्वात् । अथ तदपि व्यापकम् , खलक्षणवद्वस्तुत्वम् , अन्यथा तस्मिन्नधिगतेपि प्रयोजनाभावात्तत्रानुमानमप्रमाणमेव स्यात् ।
किञ्च, तत्प्रमेयद्वित्वं प्रमाणद्वित्वस्य ज्ञातम् , अज्ञातं वा ज्ञापकं १० भवेत् ? यद्यज्ञातमेव तत्तस्य ज्ञापकम् ; तर्हि तस्य सर्वत्राविशेषात्सर्वेषामविशेषेण तत्प्रतिपत्तिप्रसङ्गतो विवादो न स्यात् । ज्ञातं चेत्कुतस्तज्ज्ञप्तिः? प्रत्यक्षात्, अनुमानाद्वाँ ? न तावत्प्रत्यक्षात्, तेन सामान्याग्रहणात् । ग्रहणे वातस्य सविकल्पकत्वप्रसङ्गो विषयसङ्करश्च प्रमाणद्वित्वविरोधी भवतोऽनुषज्येत । नाप्यनुमानतः, १५ अत एव । वलक्षणपराङ्मुखतया हि भैवतानुमानमभ्युपगतम् -
"अंतद्भेदपरावृत्तवस्तुमौत्रप्रवेदनात् । सामान्यविषयं प्रोक्तं लिङ्ग भेदांतिष्ठितेः॥"[ ] इत्यभिधानात् । द्वाभ्यां तु प्रमेयद्वित्वस्य ज्ञाने(s)स्य प्रमाणद्वित्वशापकत्वायोगः, अन्यथा देवदत्तयज्ञदत्ताभ्यां प्रतिपन्नाद्धमद्वि-२० त्वात् तदन्यतरस्याग्निद्वित्वप्रतिपत्तिः स्यात् । द्वैविध्यमिति हि द्विष्ठो धर्मः। स च द्वयोर्ज्ञाने ज्ञायते नान्यथा । न ह्यज्ञातसा
१ विशेषेष्वप्रवृत्तिरूपः । २ अविनाभावस्य । ३ व्यापके । ४ वह्निः । ५ धूमस्य। ६ वृक्षत्वम् । ७ शिंशपात्वस्य । ८ साध्यम् । ९ लिङ्गस्य । १० सामान्यस्य । ११ अवस्तुत्वे । १२ विशेषेषु प्रवृत्तिलक्षण। १३ सामान्यविशेषभेदेन। १४ अज्ञातप्रमेयद्वित्वस्य । १५ देशे। १६ नृणाम् । १७ द्वाभ्यां वा। १८ अनुमानस्याभाव इत्यर्थः। १९ सौगतस्य । २० अत एवेत्यस्य हेतोरसिद्धत्वं परिहरति । २१ स्वलक्षणागोचरत्वेन। २२ सौगतेन। २३ अनग्निरूप। २४ अनिमात्र । २५ अन्यापोह । २६ अन्यापोह । २७ स्खलक्षणस्य । २८ अव्यवस्थितेः । कुतोऽव्यवस्थितिः ? भेदानामानन्त्येन ग्रहणासम्भवात् । २९ प्रत्यक्षानुमानाभ्याम् । असौ तृतीयो विकल्पः । ३० परिशाने सति अस्य प्रमेयद्वित्वस्य । ३१ प्रमेयद्वित्वस्य प्रमापद्वित्वचापकत्वं चेत् । ३२ भिन्नदेशे। ३३ देवदत्तस्य यशदत्तस्य वा । ३४ प्रमेयद्वित्वस्य प्रमाणद्वित्वशापकत्वायोगं दर्शयति । ३५ स्खलक्षणसामान्ययोः प्रमेययोः ।
३६ सति । ३७ पुरुषेण । Jain Educationa Intezaron० मा० १r Personal and Private Use Only
www.jainelibrary.org