SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सू० १११०] ज्ञानान्तरवेद्यज्ञानवादः १४५ वात् । अर्थजिज्ञासायां ह्यर्थे ज्ञानम्, ज्ञान जिज्ञासायां तु ज्ञाने, प्रतीतेरेवंविधैत्वात् ; इत्यप्यसमीक्षिताभिधानम् तृतीयज्ञानस्याग्रहणे तेन प्राक्तनज्ञानग्रहणविरोधात्, इतरथा सर्वत्रं द्वितीयादिज्ञानकल्पनानर्थक्यं तत्र चोक्तो दोषः। किञ्च, 'अर्थजिज्ञासायां सत्यामहमुत्पन्नम्' इति तज्ञानादेव५ प्रतीतिः, ज्ञानान्तराद्वा? प्रथमपक्षे जैनमतसिद्धिस्तथाप्रतिपद्यमानं हि ज्ञानं खपरपरिच्छेदकं स्यात् । द्वितीयपक्षेपि 'अर्थज्ञानमज्ञातमेव मयार्थस्य परिच्छेदकम्' इति ज्ञानान्तरं प्रतिपद्यते चेत् । तदेव स्वार्थपरिच्छेदकं सिद्धं तथाद्यमपि स्यात् । न प्रतिपद्यते चेत्कथं तथाप्रतिपत्तिः? किञ्च, अर्थज्ञानमर्थमात्मानं च प्रतिपद्य 'अज्ञातमेव मया सोनमर्थ जानाति' इति ज्ञानान्तरं प्रतीयात्, अप्रतिपद्य वा। प्रथमपक्षे त्रिविषयं ज्ञानान्तरं प्रेसज्येत । द्वितीयपक्षे तु अतिप्र. सङ्गः 'मयाऽज्ञातमेवादृष्टं सुखादीनि करोति' इत्यपि तेजानीयादविशेषात् । १ जातं । २ शानं जातं । ३ जिज्ञासापूर्वकत्वात् । ४ चतुर्थेन । ५ द्वितीय । ६ अर्थशाने । ७ आत्मनि । ८ प्रथमशानेनालम् । ९ अशेषस्य प्राणिमात्रस्याशेषशत्व. लक्षणः। १० अर्थशानं। ११ मित्यादि । १२ प्रथम । १३ कर्तृ । १४ जानाति । १५ शानान्तरम् । १६ अर्थज्ञानं। १७ ज्ञानत्वाद्वितीयशानवत्। १८ कर्तृ । १९ ज्ञानस्वरूपं । २० त्रितयमपि द्वितीयज्ञानस्य कर्मभूतम् । २१ ज्ञात्वा । २२ कर्तृ । २३ कर्तृ। २४ बसः। २५ अपसिद्धान्तप्रसङ्गः। २६ कर्तृ । २७ त्रितयाविषयीकरणस्य । 1 "स्वयमर्थज्ञानं ममेदमित्यप्रतिपत्तौ तथाप्रतीतेरसंभवात् , प्रतिपत्तौ तु स्वत एव तत्प्रतिपत्तिः, शानान्तरादा ? स्वतश्चेत् ; स्वार्थपरिच्छेदकत्वसिद्धिवेदनस्य वस्तुबलप्राप्ता, 'क्वचिदर्थे जिज्ञासायां सत्यामहमुत्पन्न मिति स्वयं प्रतिपद्यमानं हि ज्ञानं स्वार्थपरिच्छेदकमभ्यनुज्ञायते नान्यथेति जैनमतसिद्धिः । यदि पुनर्शानान्तरात्तथाप्रतिपत्तिस्तदापि तदथंज्ञानम् अज्ञातमेवमयाऽर्थस्य परिच्छेदकमिति स्वयं ज्ञानान्तरं प्रतिपद्यते चेत्तदेव खार्थपरिच्छेदकं सिद्धम् । न प्रतिपद्यते चेत्कथं तथा प्रतिपत्तिः ।" युक्त्यनु० टी० पृ० ९ । न्यायकुमु० पृ० १८६ । । 2 "किंचेदं विचार्यते-ज्ञानान्तरम् अर्थशानमर्थमात्मानञ्च प्रतिपद्य अचातमेव मया शातमर्थ जानातीति प्रतिपाद्य, अप्रतिपाद्य वा ? प्रथमे पक्षे अर्थस्य तज्ज्ञानस्य खात्मनः स्वपरिच्छेदकत्वविषयं शानान्तरं प्रसज्येत । द्वितीयपक्षे पुनरतिप्रसङ्गः, मुखादिकमज्ञातमेवादृष्टं मया करोतीत्यपि जानीयादविशेषात् ।" युत्तयनु० टी० पृ० ९। न्यायकुमु० पू० १८६। प्र० क० मा० १३ www.jainelibrary.org Jain Educationa International Fof Personal and Private Use Only
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy