SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ १३० प्रमेयकमलमार्तण्डे [प्रथमपरि० निष्टंविषयानुभवानन्तरं स्वप्रकाशात्मनोऽस्योदयप्रतीतेः। स्वात्मनि क्रियाविरोधं चानन्तरमेव विचारयिष्यामः । यदि चार्थान्तरभूतप्रमाणप्रत्यक्षाः सुखादयस्तर्हि तदपि प्रमाणं प्रमाणान्तरप्रत्यक्षमित्यनवस्था । विभिन्नप्रमाणग्राह्याणां चानुग्रहादिकारित्ववि. ५रोधः । न हि स्त्रीसङ्गमादिभ्यः प्रतीयमानाः सुखादयोऽन्येस्यात्मनस्तत्कारिणो दृष्टाः । ननु परकीयसुखादीनामनुमानगम्यत्वामात्मनोऽनुग्रहादिकारित्वम् आत्मीयानां प्रत्यक्षाधिगम्यत्वात्तकारित्वमित्यप्यसारम् ; योगिनोपि तत्कारित्वप्रसङ्गात् प्रत्यक्षाधिगम्यत्वाविशेषात् । आत्मीयसुखादीनामेव तत्कारित्वं नान्येषा१०मित्यपि फल्गुप्रायम्, अत्यन्तभेदेऽर्थान्तरभूतप्रमाणग्राह्यत्वे चात्मीयेतरभेदस्यैवासम्भवात् । आत्मीयत्वं हि तेषां तदुणत्वात्, तत्कार्यत्वाद्वा स्यात्, तंत्र समवायाद्वा, तेदाधेयत्वाद्वा, तैदृष्टनिष्पाद्यत्वाद्वा।न तावत्तहुणत्वात् ; तेषामात्मनो व्यतिरेकैकान्ते तस्यैव ते गुणा नाकाशादेर. १५न्यात्मनो वा' इति व्यवस्थापयितुमशक्तेः। तत्कार्यत्वाञ्चेत्कुतस्तत्कार्यत्वम् ? तस्मिन् सति भावात्; आकाशादौ तत्प्रसङ्गः । तस्य निमित्तकारणत्वेन व्यापाराददोषश्चेत्, आत्मनोपि तथा तदस्तु । समवायिकारणमन्तरेण कार्या नुत्पत्तेरात्मनस्तत्कल्प्यते, गगनादेस्तु निमित्तकारणत्वमित्य२० प्ययुक्तम् ; विपर्ययेणापि तत्कल्पनाप्रसङ्गात् । प्रत्यासत्तरात्मैव समवायिकारणं चेन्न; देशकालप्रत्यासत्तेर्नित्यव्यापित्वेनात्मवदन्यत्रापि समानत्वात् । योग्यतापि कार्ये सामर्थ्यम्, तञ्चाका १ अह्यादि। २ सुखादेः । ३ परिच्छित्तिलक्षणा । ४ अग्रे। ५ किञ्च । ६ सुखादेभिन्नप्रमाणात् । ७ सुखादीनां । ८ किन्न । ९ उपघात । १० स्वस्य । ११ परकीयसुखादिवद्दष्टान्तः। १२ देवदत्तस्य पुरुषस्य। १३ यशदत्तस्य स्वस्य । १४ जीवन्मुक्तस्य । १५ आत्मनः सकाशात्सुखादीनाम् । १६ परकीय । १७ देवदत्तात्म। १८ देवदत्तात्म। १९ देवदत्तात्मनि। २० देवदत्तात्म। २१ देव. दत्तात्म। २२ भा। २३ भेदैकान्ते । २४ देवदत्तात्मनः। २५ सुखादयः । २६ यशदत्तात्मनः। २७ देवदत्तात्म। २८ देवदत्ते सति । २९ सुखादयः आकाशकार्यत्वादाकाशादीयाः स्युराकाशादौ सति भावात्। ३० उपादानकारणं । ३१ आत्मा निमित्तकारणं गगनादि समवायिकारणं। ३२ सुखादौ। ३३ शक्तिः कायोत्पादिका। ३४ किञ्च । 1 "न चात्मनो ज्ञानाच्च अर्थान्तरभूता एव सुखादयोऽनुग्रहादिविधायिनो भवेयुः, इतरथा योगिनोऽपि ते तथा स्युः।" सन्मति० टी० पृ० ४७६ ।. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy