________________
११८
प्रथमपरि०
त्वान्मंध्यचिद्विवर्त्तवत् । तथान्त्यचैतन्यपरिणामश्चैतन्य कार्यस्तत एव तद्वत्' इत्यनुमानात्तस्य चैतन्यान्तरोपादानपूर्वकत्वसिद्धेर्न भूतानां चैतन्यं प्रत्युपादानकारणत्वकल्पना घटते । सहकारिकार - त्वकल्पनायां तु उपादार्नमन्यद्वाच्यम्, अनुपादानस्य कस्यचि - ५त्कार्यस्यानुपलब्धेः । शब्दविद्युदादेरनुपादानस्याप्युपलब्धेरदोषोयमित्यप्यपरीक्षिताभिधानम्; 'शब्दादिः सोपादानकारणकः कार्यत्वात् पटादिवत्' इत्यनुमानात्तत्सादृश्योपादानस्यापि सोपादानत्वसिद्धेः ।
प्रमेयकमलमार्त्तण्डे
गोमयादेरचेतनाच्चेतनस्य वृश्चिकादेरुत्पत्तिप्रतीतिः तेनाने१० कान्तः इत्ययुक्तम् ; तस्य पक्षान्तर्भूतत्वात् । वृश्चिकादिशरीरं ह्यचेतनं गोमयादेः प्रादुर्भवति न पुनर्वृश्चिकादिचैतन्यविवर्त्तस्तस्य पूर्वचैतन्यविवर्त्ता देवोत्पत्तिप्रतिज्ञानात् । अथ यथाद्यैः पथिकाग्निः अरणिनिर्मन्थोत्थोऽनग्निपूर्वकः अन्यैस्त्वग्निपूर्वकः तथाद्यं चैतन्यं कायाकारपरिणत भूतेभ्यो भविष्यत्यन्यत्तु चैतन्य - १५ पूर्वकं विरोधाभावदित्यपि मनोरथमात्रम् ; प्रथमपथिकाग्नेरनयैपादानत्वे जलादीनामप्यजलाद्युपादानत्वापत्तेः पृथिव्यादिभूतचतुष्टयस्य तत्त्वान्तरभावविरोधः । येषां हि परस्परमुपादानोपादेयभावस्तेषां न तत्त्वान्तरत्वम् यथा क्षितिविवर्त्तानाम्, परस्परमुपादानोपादेयभावञ्च पृथिव्यादीनामित्येकमेव पुद्गलतत्त्वं क्षित्या
१ जन्मप्रभृति मरणपर्यन्त । २ यसः ( कर्मधारय समास: ) । ३ पर्यायः । ४ बसः । ५ भूतानाम् । ६ कारणम् । ७ परेण । ८ वृश्चिकचैतन्येन । ९ वृश्चिकचैतन्यस्य । १० यसः | ११ सन्दिग्धानैकान्तिकत्वम् । १२ चुल्लीस्थः । १३ मध्य• चैतन्यम् । १४ कार्यत्वादिहेतोः । १५ काष्ठ । १६ पृथिव्यादयो धर्मिणस्तत्त्वान्तरत्वं न प्राप्नुवन्तीति साध्यं परस्परमुपादानोपादेयभाववत्त्वात् । १७ सलिलदहनपवन ।
"नापि ते कारका वित्तेः भवन्ति सहकारिणः । स्वोपादानविहीनायास्तस्यास्तेभ्योऽप्रसूतितः ॥ २०७ ॥ नोपादानादिना शब्दविद्युदादिः प्रवर्त्तते ।
कार्यत्वात् कुम्भवत्... ॥ २०८ ॥ तत्त्वार्थश्लो० पृ० २८ । न्यायकुमु० पृ० ३४४ ।
2 "गोमयादेरचेतनाचेतनस्य वृश्चिकादेरुत्पत्तिदर्शनात्तेन व्यभिचारी हेतुरिति चेन्न; तस्यापि पक्षीकरणात् । वृश्चिकादिशरीरस्याचेतनस्यैव तेन सम्मूर्च्छनं न पुनः वृश्चिकादिचैतन्यविवर्त्तस्य, तस्य पूर्वचैतन्यविवर्त्तादेव उत्पत्तिप्रतिज्ञानात् ।”
अष्टसह ० पृ० ६३ | तत्त्वार्थश्लो० पृ० २९ ॥ 3 "प्रथमपथिकाश्रनयुपादानत्वे जलादीनामप्यजलायुपादानत्वोपपत्तेः पृथिव्यादिभूतचतुष्टयस्य तत्त्वान्तरभावविरोधः । "
अष्टसह ० पृ० ६३ । www.jainelibrary.org
For Personal and Private Use Only
Jain Educationa International