________________
सू० ११५] विज्ञानाद्वैतवादः कालः; समसमयभाविनोनिशेययोः प्रतिबन्धाभावतो ग्राह्यग्राहकभावासम्भवात् । अन्यथाऽर्थोपि ज्ञानस्य ग्राहकः । अथार्थे ग्राह्यताप्रतीतेः स च ग्राह्यः न ज्ञानम् ; न तद्व्यतिरेकेणास्याः प्रतीत्यभावात् । स्वरूपस्य च ग्राह्यत्वे-ज्ञानेपि तदस्तीति तत्रापि ग्राह्यता भवेत् । अथ जडत्वान्नार्थों ज्ञानग्राहकः; ननु कुतोऽस्य५ जडत्वसिद्धिः? तदग्राहकत्वाच्चेदन्योन्याश्रयः-सिद्धे हि जडत्वे तदग्राहकत्वसिद्धिः, ततश्च जडत्वसिद्धिरिति । अथ गृहीतिकरणादर्थस्य शानं ग्राहकम् , ननु साऽर्थादर्थान्तरम् , अनर्थान्तरं वा तेन क्रियते ? अर्थान्तरत्वे अर्थस्य न किञ्चित्वंतमिति कथं तेनास्य ग्रहणम् ? तस्येयमिति सम्बन्धासिद्धिश्च । तयाँप्यस्य गृहीत्यन्त-१० रकरणेऽनवस्था । अनन्तरत्वे तु तत्करणेऽर्थ एव तेन क्रियते इत्यस्य शानता ज्ञानकार्यत्वादुत्तरशानवत् । जैडार्थोपादानोत्पतेर्न दोषश्चेत्, ननु पूर्वोऽर्थोऽप्रतिपन्नः कथमुपादानमतिप्रसगाँत् ? प्रतिपन्नश्चेत् ; किं समानकालाद्भिन्नकालाद्वेत्यादिदोषानुषङ्गः। किञ्च, गृहीतिरगृहीता कथमस्तीति निश्चीयते ? अन्यशानेन १५ चास्या ग्रहणे स एव दोषोऽनवस्था च, ततोऽर्थो शानं गृहीतिरिति त्रितयं खतन्त्रमाभातीति न परतः कस्यचिदवभासनमिति नासिद्धो हेतुः। ननु च 'अर्थमहं वेद्मि चक्षुषा' इति कर्मकर्तृक्रियाकरणप्रतीति
१ अयं प्रत्ययोनीलादेाहकः। २ तदुत्पत्तिलक्षणसम्बन्ध । ३ सव्येतरगोविषाणवत्। ४ इति न ( इत्यर्थः)। ५ अर्थस्य । ६ भो जैन । ७ परिच्छित्ति। ८ घटादेः। ९ घटस्य करणे पटस्य किमायातं यथा तथा। १० प्रथमया । २१ सम्बन्धसियर्थम् । १२ अभिन्नत्वे। १३ मृत्पिण्डादि । १४ अर्थस्य । १५ अशातः। १६ अप्रतिपन्नत्वाविशेषात् । १७ खरविषाणादेरप्युपादानवप्रसङ्गात् । १८ बोधात् । १९ अशाता। २० भिन्नकालेन समकालेन वेत्यादि । २१ अन्यशनेन गृहीतो गृहीत्यन्तरमाद्यगृहीतेरथेन सम्बन्धसियर्थ क्रियते । एवं चेदन्यशानेन क्रियमाणा गृहीतिः सा अर्थाद्भिन्ना अभिन्ना वेति उभयपक्षे उक्तदोषानुषङ्गः । पुनरपि भेदपक्षे
1 "अथार्थे ग्राह्यताप्रतीतेः स एव ग्राह्यो न शानमित्युच्यते; तन्नः तव्यतिरेके'णास्याः प्रतीत्यभावात् ।" स्या० रत्ना० पृ० १६२ ।
2 "ननु तहिं नीलमहं वेभि चक्षुषेति प्रतिभासः कथम् ? तथा हि-नीलमिति कर्म, अहमिति कर्ता, वेभीति क्रिया, चक्षुषेति करणमेतेषां परस्परल्यावृत्तवपुषां प्रतिभासनादमेदप्रतिपादनमुन्मत्तभाषितम् ; नैतदेवम् ; तैमिरिकस्य द्विचन्द्रदर्शनवदस्याप्युपपत्तेः । यथा हि-तैमिरिकस्य अर्थाभावेऽपि तदाकारं विज्ञानमुदेति, एवं कर्मादिष्वविद्यमानेष्वपि अनादिवासनावशात्तदाकारं विज्ञानमिति ।" व्योमवती पृ० ५२५ ।
प्र. क. मा. ८
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org