________________
७०
सू० १५] विज्ञानाद्वैतवादः चैवं वौदिनोऽविद्याविद्ययोर्वाध्यवाधकभावः स्यात् तत्राप्युक्तविकल्पजालस्य समानत्वात् ?
यच्च समारोपितादपि भेदादित्यायुक्तम् । तदप्ययुक्तम् आत्मनः सांशत्वे सत्येव मेदव्यवस्थोपपत्तेर्निरंशस्यान्तर्बहिर्वा वस्तुनःसर्वथाप्यप्रसिद्धरित्यात्माद्वैताभिनिवेशं परित्यज्यान्तर्बहिश्चानेकैप्रकारं५ वस्तु वास्तवं प्रमाणप्रसिद्धमुररीकर्त्तव्यम् ।
ननु चाविभोंगबुद्धिखरूपव्यतिरेकेणार्थस्याप्रतीतितोऽसत्त्वाद्विज्ञप्तिमात्रमेव तत्त्वमभ्युपगन्तव्यं तद्राहकं च ज्ञानं प्रमाणमिति; तन्न; यतोऽविभौगस्वरूपावेदकप्रमाणसद्भावतो विज्ञप्तिमात्रं तत्त्वमभ्युपगम्यते, बहिरर्थसद्भावबाधकप्रमाणावष्टंम्भेन वा? यद्याद्यः १० पक्षस्तत्रापि तथाभूतविज्ञप्तिमात्रं ग्राहकं (मात्रग्राहकं) प्रत्यक्षम् , अनुमानं वा? प्रमाणान्तरस्य सौगतैरनभ्युपगमात् । तत्र न तावत्प्रत्यक्षं बहिरर्थसंस्पर्शरहितं विज्ञप्तिमात्रमेवेत्यधिगन्तुं समर्थम्; अर्थाभावनिश्चयमन्तरेण विज्ञप्तिमात्रमेवेत्यवधारणानुपपत्तेः। "अयमेवेति यो ह्येष भौवे भवति निर्णयः। नैष वस्त्वन्तराभावसंवित्त्य गमादृते॥"
[मी० श्लो० अभावपरि० श्लो० २०] इत्यभिधानात् । न चार्थाभावः प्रत्यक्षाधिगम्यः; बाह्यार्थप्रकाशकत्वेनैवास्योत्पत्तेः । न च प्रत्यक्षे प्रतिभासमानस्याप्यर्थस्याभावो
१ बाधकेन ज्ञानमपहियते विषयो वेत्येवं वादिनः। २ उक्तविकल्पैरतीतस्योत्तरकालीनं न बाधकमिति । ३ अविद्यया किं ज्ञानमपहियते विषयः फलं वा । ४ सहाशः वर्तते इति सांशः। ५ सुखादिस्तम्भादि च। ६ पारमार्थिकम् । ७ भवता परेण । ८ विशानाद्वैतवादी योगाचार आह । ९ ग्राह्यग्राहकसंवित्तिरूपो विभागः । १० जनादिमिः । ११ इदं शानमयं विषय इति विभागः । १२ शापक । १३ परेण । १४ बलेन । १५ प्रकृते विज्ञाप्तिमात्रे। १६ घटते। १७ बहिरर्थ। १८ सद्भावादिना। १९ अस्तीति साध्यः ।
1 ब्रह्माद्वैतवादस्य विविधरीत्या पर्यालोचनं निम्नग्रन्थेषु द्रष्टव्यम्-मी० लोकवा. पृ० ६६२-, तत्त्वसं० पुरुषप० पृ० ७५-, न्यायमं० पृ० ५२६-, आप्तमीमांसा अष्टश० अष्टसह० पृ० १५६-द्वि० परि०, न्यायकु० चं० प्रथमपरि०, सन्मति. टी० पृ० २७७-२८५-, स्या. रता० पृ० १९०-।
2 "ननु किमविभागबुद्धिस्वरूपावेदकप्रमाणसद्भावतो विज्ञप्तिमात्रमभ्युपगम्यते, आहोस्विदर्थसद्भावबाधकप्रमाणसद्भावसङ्गतेरिति वक्तव्यम् ? तत्र यद्याद्यः पक्षः स न युक्तः, यतस्तथाभूतविशप्तिमात्रोपग्राहकं प्रत्यक्ष वा तद्भवेदनुमानं वा...।" सन्मति. टी० पृ० ३४९।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org