________________
प्रमेयकमलमार्त्तण्डे
[ प्रथमपरि०
प्यसमीचीनम् ; अनुमानेपि समानत्वात् । शब्दप्रभवत्वादित्यप्यसाम्प्रतम् ; शब्दाध्यक्षस्याप्रामाण्यप्रसङ्गात् । ग्राह्यार्थ विना तन्मात्रप्रभवत्वं चासिद्धम् ; नीलादिविकल्पानां सर्वदार्थे सत्येव भावात् । कैस्यचित्तु र्तमन्तरेणापि भावोऽध्यक्षेपि समानः ५ द्विचन्द्रादिप्रत्यक्षस्यार्थाभावेपि भावात् । भ्रान्ताद्भ्रान्तस्यान्यत्वमत्रापि समानम् ।
किञ्च, विकल्पाभिधानयोः कार्यकारणत्वनियमकल्पनायाम्किञ्चित्पश्यतः पूर्वानुभूतं तत्सदृशंस्मृतिर्न स्यात् तन्नामविशेषास्मरणीत्, तदस्मरणे तदभिधानाप्रतिपत्तिः, तदप्रतिपत्तौ तेन १० तेंदयोजनम्, तदयोजनात्तदध्यवसाय इत्यविकल्पाभिधानं जगदापद्येत ।
३८
किञ्च, पदस्य वर्णानां च नौमान्तरस्मृतावसत्यामध्यवसायः, सत्यां वा ? तत्राद्यपक्षे-नाम्नो नामान्तरेण विनापि स्मृतौ केवलार्थाध्यवसायः किन्न स्यात् ? 'स्वाभिधानविशेषापेक्षा एवार्था १५ निश्चयैर्निश्चीयन्ते' इत्येकान्तत्यागात् । द्वितीयपक्षे तु-अनवस्थावर्णपदाध्यवसायेप्यपरनामान्तरस्यावश्यं स्मरणात् ॥ छ ॥
१ शब्दजनित प्रत्यक्षस्य । २ घट: कास्ते तत्रास्ते इत्यादि । ३ शब्द । ४ विकरूपस्य । ५ विकल्पस्य । ६ वन्ध्यासुताद्यर्थं । ७ नीलं । ८ नुः । ९ तेन दृश्येन नीलेन सदृशं पूर्वानुभूतं च तच्च तत्सदृशं च तस्य स्मृतिः । १० स्मृतिर्विकल्पः । ११ पूर्वानुभूततत्सदृशार्थंस्मरणात्पूर्वं नामविशेषस्य पूर्वानुभूततत्सदृशार्थमरणोत्पादकस्याभावात्तस्य तत्कार्यतया पूर्वानुभूतत्सदृशार्थनामविशेषस्मृत्यनन्तर भावित्वात् । १२ नामविशेष । १३ नाम । १४ शब्देन । १५ नीलशब्देनेदं वाच्यमिति योजनाभावः । १६ दृश्यस्य नीलस्य । १७ दृश्यमाने नीले विकल्पानुत्पत्तिः । १८ विकल्पाभिधानशून्यं । १९ गौरित्यस्य 1 २०- गकार औकार विसर्जनीयानां । २१ अभिधान । २२ नामनिरपेक्ष । २३ विकल्पैः ।
66
1 तु०~~~" तस्मादयं किञ्चित्पश्यन् तत्सदृशं पूर्वं दृष्टं न स्मर्तुमर्हति तन्नामविशेषास्मरणात्, तदस्मरन्नैव तदभिधानं प्रतिपद्यते, तदप्रतिपत्तौ तेन तन्न योजयति, तदयोजयन्नाध्यवस्यतीति न क्वचिद्विकल्पः शब्दो वेत्यविकल्पाभिधानं जगत्स्यात्" । अष्टश ० अष्टसह ० पृ० ११९ । स्या० रत्ना० पृ० ७७ ।
2 तु० -" नाम्नो नामान्तरेण विनापि स्मृतौ केवलार्थव्यवसायः किन्न स्यात्... तन्नामान्तर परिकल्पनायामनवस्था " । ( अष्टश ० ) " तदुक्तं न्यायविनिश्चये ( ११६ ) अभिलापतदंशानामभिलापविवेकतः । अप्रमाणप्रमेयत्वमवश्यं मनुषज्यते” ॥ अष्टसह • पृ० १२० ।
3 बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य खण्डनमनयैवानुपूर्व्या-अष्टश०. अष्टसह ० पृ० ११८, प्रमाणप० पृ० ५३, न्यायकु० च० प्र० परि०, सम्मति ०टी० पृ० ४९९ । स्या० रत्ना० पू० ७६ । इत्यादिषु द्रष्टव्यम् ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org