________________
प्रमेयकमलमार्तण्डे [प्रथमपरि० ध्यवसाये-अतिप्रसङ्गः-अक्षज्ञानेन त्रिविप्रकृष्टेतरयोरप्येकत्वाध्यवसायप्रसङ्गात् । तन्न तयोरेकत्वाध्यवसायाद्विकल्पे वैशद्यप्रतीतिः, अविकल्पकस्यानेनैवैकत्वाध्यवसायस्य चोक्तन्यायेनाप्रसिद्धत्वात्। ५ यच्चोच्यते-संहृतसकलविकल्पावस्थायां रूपादिदर्शनं निर्विकल्पकं प्रत्यक्षतोऽनुभूयते । तदुक्तम्
"संहृत्य सँर्वतश्चिन्तांस्तिमितेनान्तरात्मना । स्थितोपि चक्षुषा रूपमीक्षते साऽक्षजा मतिः" ॥ १॥
[प्रमाणवा० ३३१२४] . "प्रत्यक्ष कैल्पनापोढं प्रेत्यक्षेणैव सिद्ध्यति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः" ॥२॥
[प्रमाणवा० ३।१२३] इति । न चात्रावस्थायां नामसंश्रयतयाऽननुभूयमानानामपि विकल्पानां सम्भवः-अतिप्रसङ्गादित्यप्युक्तिमात्रम् ; अश्वं विकल्पयतो १५ गोदर्शनलक्षणायां संहृतसकलविकल्पावस्थायां स्थिरस्थूलादि
स्वभावार्थसाक्षात्कारिणो विपरीतारोपविरुद्धस्याध्यक्षस्यानिश्चयात्मकत्वायोगात् । तत्त्वे वा अश्वविकल्पाद्युत्थितचित्तस्य गवि स्मृतिर्न स्यात् क्षणिकत्वादिवत् । नामसंश्रयात्मनो विकल्पस्यात्र निषेधे तु न किञ्चिदनिम् । न चाशेषविकल्पानां नामसंश्रयतैव २० स्वरूपम् ; समारोपविरोधिय॒हणलक्षणत्वात्तेषामित्यग्रे व्यासतो वक्ष्यामः । न चानिश्चयात्मनः प्रामाण्यम्; गच्छत्तणस्पर्शसंवेदनस्यापि तत्प्रसङ्गात् । निश्चयहेतुत्वात्तस्ये प्रामाण्यमित्ययुक्तम् । संशयादिविकल्पजनकस्यापि प्रामाण्यप्रसङ्गात् । वलक्षणानध्य
१3
१ देशकालस्वभावव्यवहिताव्यवहितयोः घटादिपरमाण्वाद्योः। २ विकल्पस्य । ३ परेण । ४ नष्ट । ५ नीलादि । ६ जातिद्रव्यगुणक्रियानिबन्धनाः । ७ सामस्त्येन। ८ विकल्परूपाम् । ९ स्थिरीभूतेन । १० गच्छन् वा। ११ रहितं। १२ मनसा। १३ प्रतिस्वरूपवेधः। १४ स्वसंवेदनेन वेद्यः। १५ शब्दः संश्रयः कारणं यस्य विकल्पस्य सः। १६ नष्टविकल्पायां। १७ सुप्तप्रमत्तादावपि स्यात् । १८ पुरुषस्य । १९ साधारणं सामान्यरूपं । २० क्षणिकादि । २१ ता ( षष्ठी)। २२ निर्विकल्पकस्य । २३ व्यावृत्त। २४ नरस्य। २५ जनानां । २६ शान । २७ शब्दाद्वैतवादे । २८ विस्तरतः। २९ दर्शनस्य । ३० दर्शनस्य । ३१ अनुक्षणिक ।
1 'अविकल्पमपि शानं विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराङ्गं तद्द्वारेण भवत्यतः' ॥ १३०६ ॥ तत्त्वसं०
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org