________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् चैत्र कृष्णस्य सप्तम्यां प्रतिष्ठा तस्य सूरिभिः । विहिता जिन चत्वारिंशन्मूर्तीनां महोत्सवात् ॥१५६।। सम्वद्गुणाङ्गदेहेन्दुवर्षे तत्रैव सूरिणा। द्वितीयाऽपि चतुर्मासी कृता लाभमवेत्य च ॥१५७।। वैशाख शुक्ल सप्तम्यां गुरौ तत्रैव सूरिणा । वर्द्धमान जिनेन्द्रादि मूर्तयश्च प्रतिष्ठिताः ॥१५८।। गुरुणा थ चतुर्मासी लवेरह पुरे कृता । संवद्वदरसाङ्गन्दुवर्षे श्राद्ध जनाग्रहात् ।।१५६।। तत्र योधपुराधीश-सूरसिंहः समागतः । गुरु नन्तु गुरोधर्मगोष्ट था सोऽत्यन्तरञ्जितः ॥१६॥ सूरिपरमभक्तोऽभूत्-स पुनस्तेन सद्गुरोः। स्वदेशे मान सन्मान वद्धयितु मुदाऽखिले ।।१६१।। सुगुर्वागमने श्राद्धजनेभ्यश्च समर्पिता। वाजित्रवादनस्याज्ञा सर्वत्र लेख संयुता ।।१६२॥ युग्मम् ततो विहृत्य सूरीन्द्रः संशिष्यमेंडतापुरे । कृता वर्षास्थितिः संक्बाणाङ्गाङ्गन्दुवत्सरे ॥१६३।। श्री राजनगरायाविज्ञप्त्या सूरयो ययुः। तत्र ततो विहत्यागुः स्तम्भनं श्रावकाग्रहात् ।।१६४॥ तत्र रस रसाङ्गन्दु-वर्षे वर्षा स्थितिः कृता । पूज्यैः शैलरसाङ्गन्दु-वर्षे राजपुरे ततः ॥१६॥ संवद्गजरसाङ्गन्दु-वर्षे गूर्जरपत्तने । कृता वर्षास्थितिः पूज्ये धर्मलाभमवेत्य तैः ॥१६६।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org