________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् श्री बीकानेरवास्तव्य मुख्यश्राद्धजनाः पुनः। विज्ञप्तिपत्रमादाया जग्मुः सद्भक्तिशालिनः ॥१४॥ पत्रं वितीर्यतस्तत्र कतुवर्षास्थितिं गुरोः। . आग्रहात्प्रार्थनाकारि सा गुरुणाऽपि मानिता ॥१४६।। ततो यात्रा कृता पूज्यैः नाकोड़ा पार्श्वसद्विभोः । प्रभूतधर्मकार्याणि तत्रासन्सूरिहस्ततः ॥१४॥ पुनः कांकरिया गोत्रि-कर्मासाहादि कारिताः। श्री जिनचन्द्र पूज्येनाऽर्हन्मूतयः प्रतिष्ठिताः ॥१४८।। ततो विहृत्य सूरीन्द्रों वीकानेर पुरं गताः। गुरोः प्रभूत कालेनागमनेनाति हर्षितैः ॥१४॥ श्राद्धजनैर्महाराज रायसिंह समन्वितैः । महदाडम्बरात्पूज्य-पुः प्रवेशोत्सवः कृतः ॥१५०।। तत्र वैशाख कृष्णकादश्यां शुक्र प्रतिष्ठिताः । श्री मुनिसुत्रताधर्हन्मूर्तयश्चन्द्रसूरिणा ॥१५१।। जाता वर्षास्थितिस्तत्राऽक्षिरसाङ्गन्दु वत्सरे । गुरोः पुन लसद्भक्तिबही धर्मप्रभाक्ना ॥१५२।। इतः कार्तिकशुक्लस्वचतुर्दश्यां , मङ्गले। निशायां प्राप्तवान्कालमकबर जलालदीः ॥१५३।। प्रधानैरभिषिक्तोऽथ साहि पदे तदात्मजः । नूरुदिन्न अहांगीरों इत्याख्या सलीम इत्यऽपि ॥१५४।। श्री खरतरसंघेन चैत्यं पुरेऽत्र कारितम् । शत्रुञ्जयावतारास्वं रम्यं श्री ऋषभ प्रभोः ॥१५॥
७६]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org