________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् द्वादश्यां माघशुक्लस्य पुष्पार्केच शुभे क्षणे । स्थिर-ध्यानस्थ आचाम्लाष्टम तपोन्वितः पुनः ॥११४।। नौका स्थितो गुरुः पञ्च-सरितां मङ्गमं ययौ। अतिवेगप्रवाहाढ्यं गम्भीरागाढजीवनम् ॥११५।। युग्मम।। तत्र गुरोः स्थिरध्यानान्नौका स्थिराऽभवत्ततः । श्री सूरिमन्त्रजापेन तपशीलप्रभावतः ॥११६॥ आकृष्टाः पश्चपीराश्च खोडियो क्षेत्रपालकः । माणिभद्रादयो यक्षाः प्रत्यक्षीभूय सूरये ॥११७।। धर्मोन्नति सहाय्यार्थं वरं दत्त्वा तिरोदधुः। प्रभाते थ समायातः पूज्याः पुरं महोत्सवात् ॥११८।।
त्रिभिर्विशेषकमा। घोरवालकुलोत्पन्न नानिगसूनुना तदा। राजपालेन सत्कीतिरुपार्जिता धनव्ययात् ॥११॥ ततो विहत्यसूरीन्द्रो ऊञ्चनगरमोगताः । तत्र श्रीशान्तिनाथस्य चक्र: पवित्रदर्शनम् ॥१२०॥ तेथ देराउरं गत्वा गुरुचरणपादुकाम् । जिनकुशलसूरीन्द्रस्वर्गस्थाने ववंदिरे ॥१२॥ जिनमाणिक्यसूरीन्द्र-स्वर्गभूमिस्थितस्य तैः। जैसलमेरु मार्गस्थ स्तूपस्य दर्शनं कृतम् ॥१२२।। नवहरपुरे पार्श्वनाथ यात्रां विधायते। जेसलमेरु दुर्ग श्रीसद्गुरवः समाययुः ॥१२३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org