SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ युगप्रधान श्री जिनचन्द्रसूरि-चरितम् श्री जैनदर्शनाहिंसा-तत्वज्ञानेन साहिनः । हृदयं कोमलं जातं दयाद्रं च विशेषतः ॥१३॥ कम्पते हृदयं जीव-हिंसा श्रवण मात्रतः । यस्य यस्त्यक्तवान् यावज्जीवं च मांसभक्षणम् ॥१४॥ साहिनो जीवहिंसादि निषेध करणेऽखिलम् । श्रेयोस्ति जैन साधनां सदा समागमस्य हि ॥६५॥ जैन धर्मानुयायीति संकथनेऽपि साहिनः । प्रभावोऽस्ति गुरोनित्यं धर्मोपदेशदायिनः ॥६६।। साही न केवलं भक्तोऽभूद्गुरोः किन्तु भक्तिमान् । तत्सर्वपरिवारोऽपि तन्नियोगि गणोऽप्रगः ॥१७॥ अभूत् साही स्वजातीय-जनोपद्रवतः सदा । शत्रुञ्जयादि जैनीय-तोर्थ रक्षाकरो भृशम् ।।१८।। कियतां जैन शास्त्राणां विज्ञाताऽकबरो भवत् । जैनीय साधू संसर्गा जनतत्वरहस्यवित् ।।६।। प्रवचनसरीक्षादीन्मिथो विरोधवर्धकान् । धर्मसागरिक ग्रन्थान् सन्मार्ग नाशकान् पुनः ॥१०॥ दृष्ट्वाविद्वत्सभाध्यक्षं विद्वद्भिः सह साहिना। तेषां प्रकटितात्यन्तममान्यत्वा प्रमाणता ॥१०१॥ युग्मम्।। तेषां जैन पथोत्तीर्णत्वामान्यत्वा प्रमाणता । सर्वत्र फुरमानेन प्रकाशिता च साहिना ।।१०२॥ अनन्तरं चतुर्मास्याः संघेन सह सद्गुरुः । श्री गुरुमुकुट स्थाने कुशलसूरि पादुकाम् ।।१०३।। [७१ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003816
Book TitleYugpradhan Jinchandrasuri Charitam
Original Sutra AuthorN/A
AuthorBhanvarlal Nahta
PublisherAbhaychand Seth
Publication Year1971
Total Pages156
LanguageHindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy