________________
.. युगप्रधान श्री जिनचन्द्रसूरि चरितम्
परम भक्तिमान् श्राद्धो, नागदेवो भवत्ततः। जनमान्यः ससम्यक्त्व-द्वादश व्रत धारकः ॥१६॥ श्रुत्वेति विस्मितश्चित्ते, साही स्माह मयार्पितम् । तन्नामैषां तदाम्नाय भुवां विलोक्ययोग्यताम् ॥२०॥ श्रीमन्महिमराजस्य, सिंहतुल्यस्य शक्तितः। श्रीजिनसिंहसूर्याख्या, देया सद्गुण शालिनः ॥२१॥ सुमुहूर्त महामात्य, स्वशास्त्र विधिना त्वया। महोत्सवेन कार्येयं, प्रवृत्तिर्जन साक्षिकम् ॥२२॥ इत्युक्ते साहिना राय-सिंह भूपायमन्त्रिणा। वीकानेरपुरेशाय, सवृतान्तो निवेदितः ॥२३।। तेनाऽपि सम्मतिश्चाज्ञा, दत्ताऽस्मिन शुभकर्मणि । तेन पौषधशालायां, संघोप्य मिलितोऽखिलः ॥४॥ मंत्री तं प्राह संघोऽस्ति, यद्यपि सर्वकर्मणि । क्षमस्तथापि मे शिष्टि, रेतत्कर्तुं प्रदीयताम् ।।२।। मन्त्रीशोवाप्य संघाज्ञां, श्रीशंखवाल गोत्रिणा । श्रावक साधुदेवेन, कारिते सुमनोहरे ॥२६।। अहूताऽनेक गच्छीयो पासक बात सुन्दरे । वस्त्राभरण मुक्ताभिः, मण्डिते सदुपाश्रये ॥२७॥ कुम्भस्थापन दिग्पाल-ग्रहाद्याह्वान पूर्वकम् । चतुर्मुखाज संस्थानां, विज्ञानि जन निर्मिताम् ॥२८॥
६४]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org