________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् मङ्गल दोपकारात्रि-समयेऽकबरः समम् । स्व सुतेन सलीमेन, राजवर्गीय सन्नरैः ।।२१।। तत्रागत्य प्रभोर, रौप्य दश सहस्रकम् । विढोक्या दर्शयत्सार्व-भक्ति शासन गौरवम ॥२२॥
॥ युग्मम् ।। तदा मन्त्र्यर्पितं शान्ति स्नात्र जलं स्वशान्तये । शाहि स्व चक्षुषोभक्त्या, लगयन्मन्त्रि जल्पनात् ॥२२॥ पुनस्तस्य जलं प्रेषि. साहिनान्तः पुरे निजे । ताभिरन्तः पुरन्द्रीभि, गृहीतं भाव पूर्वकम् ।।२२२॥ । अस्मिन्नष्टोत्तरी स्नात्र-पवित्र दिवसेऽखिलैः ।
श्राद्धं श्राद्धी जनैः शान्त्यै, वराचाम्ल तपः कृतम् ॥२२३।। ययु रेतदनुष्टाना, त्सर्वे दोषाः क्षयं ततः। जहर्षा कबरो त्यन्तं, पुरी जनोऽखिलः पुनः ॥२२४॥ संवत्खेटाब्धि देहेन्दु-वर्षे वर्षा स्थितिः कृता। तत्र साह्या ग्रहाल्लाभ, ज्ञात्वा यतौ च सूरिणा ॥२२॥ अथार्य धर्म चैत्यादि-विध्वंस करणं महान् । म्लेच्छानां जन्मतो ह्यस्ति, स्वाभाविकश्च दुर्गुणः ॥२२६।। यद्यपि साहि राज्येदृग-पापकृत्य निषेधनम् । अभूत्तथापि तस्थुस्त त्कृत्यं कुर्वन्त एवते ।।२२७।। यदा तत्र विराजन्ते, श्री जिनचन्द्रसूरयः। तदा दुःखद सन्देश, एकः श्रुतश्च मन्त्रिणा ||२२८॥
५६ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org