________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् तेषां स्वव्रत भङ्गत्वा-चार विरुद्ध भीतितः । तद्ग्रहणं तु दूरेस्तु-तत्स्पर्शोपि न कल्पते ॥२०८।। एतत्पञ्च परित्यागा, निर्ग्रन्था जिनशासने । उच्यन्ते साधवस्तस्मा न्नेमागृह्णामहेवयम् ।।२०६।। किंच धन कुटम्बादि-त्यागाद्भवति दीक्षितः । पुनरनुचितं त्यक्त-ग्रहणं वमितान्नवत् ।।२१०।। इमां निरीहितां वाणी, सूरेः श्रुत्वा प्रहर्षितः। चकितोऽकबरोदात्ता. मुद्राधर्माय मन्त्रिणः ॥२१॥ तेन ता व्ययिता धर्मे, प्यैकदा मूल भेजनि । साहि पुत्र सलीमाख्य-सुरत्राण सुतावरा ॥२१२।। गणका जगदुःसाहिन् , जनकानिष्ट कारिणी। त्याज्येयं कुत्रचित्स्थाने, मुखमपि न पश्यताम् ।।२१३।। साह्याहूय तदा शेख-अबुलफजलादिनन् । प्रपृच्छ मूल नक्षत्र-जन्मदोष प्रतिक्रियाम् ॥२१४॥ सतैः समं परामर्थ्य, संपृष्ट्वा मन्त्रिणं जगौ । जैन मतानुसारेणा, स्योपशान्तिर्विधीयताम् ।।२१।। अथाकबर शिष्ट्याष्टा-ह्नि महोत्सव पूर्वकम् । लक्ष रौप्य व्ययाच्चैत्र शुक्लराका दिने शुभे ॥२१६।। सुपार्धाष्टोत्तरी स्नात्रं विशेप विधिना पुनः। कारयामास मन्त्रीशो, महिमराज वाचकात् ॥२१॥ श्री जिनचन्द्रसूरीणा, मादेशेन विधिश्चसा। लिखिता गद्यबद्धन, श्री जयसोम पाठकैः ॥२१८।।
[५५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org