________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
ततो युगाम्भोधि रसेन्दु वर्षे, श्रीस्तम्भने स्तम्भन पार्श्वरम्ये।।५४ ।
ततो विहत्य सूरीन्द्रो राजनगर माययौ । तीर्थयात्रोपदेशेन, तदा तत्रत्य वासिनौ ॥५५।। श्राद्धौ संघपती योगी-नाथ सोमजि संज्ञको । शत्रुञ्जयादि यात्रार्थ, महा संघ चतुर्विधम् ।।५।। मेलयित्वा प्रकुर्वन्तौ, स्थाने स्थाने च दर्शनम् । जिनानां सूरिभिः सार्धं, सैरिसरं समागतौ ॥५७।। माघ मासे महासंघो, बीकानेरा द्विनिर्गतः । सर्व देश जनाकीर्णो, ऽत्राप्य मिलच्चतुर्विधः॥५८।। चतुर्थ्यां चैत्र कृष्णस्य, यात्रा सिद्धगिरे मुदा।
महता तेन संधेन, समं कृता च सूरिभिः ।।६।। ततः शराम्भोधि रसेन्दु वर्षे, वर्षा स्थिति सूर्यपुरे मुनीन्द्रः । ततो रसाम्भोधि रसेन्दु वर्षे, श्राद्धामहा द्राजपुरे चकार ।।६० ततो ऽक्षयतृतीयायां, कोडाख्य श्राविका गृहीत् । गुरोः पार्धात्सु सम्यक्त्व-मूलक द्वादश व्रत ॥६१॥ कृत्वा नगाम्भोधि रसेन्दु वर्षे, वर्षा स्थितिं गुर्जर पत्तने सः । पवित्रयन् राजपुरादि गत्वा, स्थास्तम्भने श्राद्ध जनाग्रहेण ॥६२।। सर्वत्र नित्यं विचरन्मुमुन, विबोधयन् भव्य जनान्मुनीन्द्रः । संघोपधान व्रत सत्प्रतिष्ठा,-दि धर्म कृत्यानि विधापयंश्च ॥६३॥ जिनेन्द्र धर्म दृढयन् जनौघान् , जिनेन्द्र धर्म प्रतिपन्थि मुख्यान् । वाचंयमाभास कुसागरीयान्, निर्लोठयन शास्त्र विधान पाठः
॥६॥ ४०]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org