________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
तत्रा भवन् श्रीसुगुरु प्रसादा, त्सद्धर्म कार्याणि च मासकल्पम् विधाय सौरीपुर चन्द्रवाडि- श्रीहस्तिनापुःस्थ जिनेन्द्र यात्राम्
॥३॥ समाययौ तत्र पुनः सगोप-पुरं प्रगच्छन्सुगुरु स्तथापि । वर्षा स्थितिं श्राद्ध जनाग्रहेणा गरे करोन्नाग कराङ्ग चन्द्र
॥३६॥ युग्मम् ॥ ततः खगाक्ष्यङ्ग शशाङ्क वर्षे, वर्षा स्थिति रुस्तपुरे सूरीन्द्रः। ततो विकानेर पुरे चकोर, संवन्नमो ग्न्यङ्ग शशाङ्क वर्षे ॥३॥
सूरिणा तत्र छाजेड़ा-मरसिंह विधापितम्। दशम्यां माघ शुक्लस्या-जित बिम्बं प्रतिष्ठितम् ।।३८।। पुनः फाल्गुन मासेत्र, नयणा श्राविका गृहीत् ।
गुरोः पार्थात्सुसम्यक्त्व-मूलक द्वादश व्रतम् ॥३६॥ संवद्धरा वन्हि रसेन्दुवर्षे, संवत्कराग्न्यङ्ग शशाङ्क वर्षे । गुरु विकानेर पुरे च वर्षा-वासद्वयं लाभ मवेत्य चक्र ॥४०॥
ततो विहृत्य सूरीन्द्रः फलवर्द्धि पुरं ययौ। श्रीपार्श्वनाथ चैत्यस्य, दर्शनार्थं यदागतः ।।४।। तदा सागरिक श्राद्धै स्तच्चैत्ये दायि तालकम्
हस्त स्पर्शात्तदुद्घाट्य, सोकरोज्जिनदर्शनम् ॥४२॥ ततो विहृत्यार्य गुरुश्चकार, वर्षा स्थिति जेसलमेरु दुर्गे। संवद्गुणाग्न्यङ्ग शशाङ्क वर्षे, श्राद्धानहाल्लाभ मवेत्य सुष्ठु ॥४३॥
माघ शुक्लस्य पञ्चम्यां, वीजू श्राविकादरात् । ३८]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org