________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
ततो विकानेर पुरे करोत्स, संवद्गुणाक्ष्यङ्ग शशाङ्क वर्षे ।।२४।।
इतः खेतासर ग्रामे, चोपडा गोत्रि चांपसी। तस्य चांपलदेभार्या, मानसिंहस्तयोः सुतः ॥२॥ स मार्गशीर्ष कृष्णस्य, पञ्चम्यां चन्द्रसूरिणा। गुरुणा दीक्षितोस्याख्या, महिमराज इत्यभूत् ॥२६॥ नादोलाइ पुरे वेद-हस्ताङ्ग चन्द्र वत्सरे । श्राद्धाग्रहा च्चतुर्मासी, विहिता चन्द्रसूरिणा ।।२।। तत्र कात्तिक शुक्लस्य, दशम्यां निकषागताम् । मुगल वाहिनीं श्रुत्वा, महात्रास विधायिनीम् ॥२८॥ मारण ताडन द्रव्य-हरणादि भय द्रुताः । तद् ग्राम वासिनो लोका, दिशो दिशं पलायिताः ॥२६॥ तदोक्त सर्व संघेन, गन्तु मन्यत्र सूरये । तथापि गुरवो ध्याने, तस्थु स्तत्रैव निर्भयाः ॥३०॥ गुरुध्यान प्रभावात्त,न्मार्ग भ्रष्टा पराध्वनि । पतिता सागतान्यत्र, तदा प्रहर्षिता जनाः ॥३१।। सर्वे जना मिलित्वो पा- श्रयं गत्वा गुरून स्थितान् । ध्याने दृष्ट्वा मुदं प्रापु, व वंदिरे प्रशंसिरे ॥३२॥ श्री बापडाऊ नगरेथ वर्षा वासं समे बाण कराङ्ग चन्द्र । पुन विकानेर पुरे रसाक्षि रसेन्दु वर्षे सुगुरुश्चकार ॥३३॥ ततो नगाक्ष्यङ्ग शशाङ्क वर्षे, वर्षा स्थिति श्रीमहिमे विधाय । मेवात देशे विचरन् क्रमेणा-गरा पुरे श्रीसुगुरु जंगाम ॥३४॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org