________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम्
वाजित्र नादमुदितैर्विचित्रा-लंकार वेषैर्लघु बालकैश्च ||४|| रथंरथंच प्रतिवर्त्तमानै, रेकैक दिव्यध्वनि तुर्यवृन्दैः । प्रवाद्यमानैर्जय शब्दवादि-सद्या चक्राद्यः पुररीर्यमाणैः ||५|| मरूस्थली मालव गुर्जरादि देशोद्भवैः श्राद्धजनैः प्रभूतैः । पृष्टानुयात जय शब्दकान्यं-तरांतरासं कथयद्भिरुच्चैः ॥६॥ नेपथ्य मुक्ताफल रत्नचामी कराद्यलंकार विभूषिताभिः । सुश्राविकाभिः सुगुरोगुणौघान् गायन्तिकाभिर्मधुरस्वरेण ॥७॥ मुक्ताफल स्वस्तिक चारुनन्दा - वर्त्तानि हर्षात्क्रियमाणिकाभिः | स्थानं प्रतिस्व स्वकमप्रतोहि, श्रीचंद्रसूरेः सधवाबलाभिः ||८|| मध्ये सशिष्यै गुरुभि र्मनोज्ञ, तत्रस्थ लोकाः सकला अपूर्वम् । गुरोः प्रवेशोत्सव मादरेण, विलोक्यचित्तं तुळ हर्ष मापुः ॥६॥ षड्भिः कुलकम् ॥ संवद्गजेला रस चन्द्र वर्षे, श्राद्धाग्रहात्तत्र गुरुश्चकार । वर्षा स्थिति लाभ मवेत्य जैन-धर्मोन्नतिस्तत्र बभूवबही ॥ १० ॥ धर्मोपदेशं सुगुरो निशम्य तत्र प्रबुद्धा ललु रिद्ध भावाः 1. केचिज्जना द्वादश सुव्रतानि, केचित्पुनर्भागवतीं च दीक्षाम् ॥११॥ पुनर्जिनेन्द्र प्रतिमा प्रतिष्ठा, कृता ततः श्री गुरवो विहृत्य । संवत्खगेलारस चन्द्र वर्षे, श्राद्धाकुलं राजपुरं प्रजग्मुः ॥१२॥
इत एकोद्विजो विद्वान्, स्वमस्तक धृताङ्कुशः । स्वोदर बद्ध पट्टश्च सर्व विद्याभिमानतः ॥ १३॥ एकस्य जल भृत्कुम्भं, धारयन् तृण पुलकम् ।
Jain Educationa International
For Personal and Private Use Only
[ ३५
www.jainelibrary.org