________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् जायन्ते तन्मतेऽशीति-दिनानि भाद्र मासि च । द्वितीयभाद्रमासि प्राग-रीत्योत्सूत्रं ततोस्ति तत् ॥११५।। देवानन्दोदराल्लात्वा, त्रिशला कुक्षिमोचनम् । प्रभोः प्रोक्त ति गर्भाप-हार व्युत्पत्ति रागमे ॥११६।। पुनः श्रीकल्पसूत्रादौ, वीरगर्भापहारकः। भ तिथि मास कालादि-निर्णयो निर्जराकरः ॥११७।। स्वप्न दर्शन पृच्छास्व-धान्यादि वृद्धि पूर्वकम् । च्यवन मिव सर्वत्र, कोयाणक तया कथि ॥११८॥ युग्मम् ।। जम्बूद्वीपोक्त राज्याभिषेकपाठेन सागराः । एकोडुसूचकेनाधि-करण कर्म वृद्धिना ॥१६॥ पञ्चाशकोक्त सामान्य सर्वार्हद्भद्र पाठतः । खण्डयन्ति विशेष तं, पाठमुत्सूत्रमत्र तत् ॥१२०।। युग्मम् ।। कल्पादौ भद्रबाह्वादि श्रुतकेवलिभिः पुनः। उच्चैर्गोत्रोदयानिंद्य-श्लाघ्य कल्याणतादिभिः ॥१२॥ प्रभो निष्क्रमणं नीचै गोत्र विभुक्त्यनन्तरम् । देवानन्दोदरात्प्रोक्त', त्रिशला कुक्षि मोचनम् ॥१२२॥ युग्मम् ॥ तथापि सागरैर्गर्भा-पहारो मन्यते प्रभोः। पूर्वोक्त वैपरीत्येन, तदुत्सूत्रंहि तन्मते ॥१२३॥ विप्रकुलोद्भवाद्याश्चर्यानां कल्याणकानि च । मन्यन्ते तं विनाज्ञस्तै, स्तदुत्सूत्रं हि तन्मते ॥१२४॥ जिनदत्तै निषिद्धास्ति, सर्वर्थार्चा जिनेशितुः ।
[२७
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org