________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् ततः संवा गेलांग-चन्द्राब्दे चैत्रमेचके । सप्तम्यां मंत्रिणा द्रव्यव्ययान्महोत्सवे कृते ।८।। ते चाभंगुरवैराग्यात्, षोडश साधुभिः समं । सर्वपरिग्रहं त्यक्त्वा, क्रियोद्धारं प्रचक्रिरे ॥६॥ युग्मम् चारित्रपालनाशक्ता, ये प्रसिद्धिं गता जने। मथेरणमहात्मेति, नामद्वयेन तेऽखिलाः ॥११॥ तदा गच्छ व्यवस्थार्थ, चारित्रपालनाय च । व्यवस्थापत्रमेकं तै, रचित्वा प्रकटीकृतम् ॥१२॥ द्वितीयापि चतुर्मासी, तत्रैव सूरिणा कृता। लाभं विज्ञाय तत्राभूबह्वी धर्मप्रभावना ॥६३|| ततो विहृत्य सूरीन्द्रो, बाणेलांगेन्दुवत्सरे । महेवाख्य पुरे वर्षा स्थितिं चक्र मुमुक्ष राट ।।४।। सूरिणा वान्यकेनापि, तत्र पाण्मासिकं तपः । कृतं वाथ स शेषाष्ट-मासेषु विजहार कौ ॥१५॥ जेसलमेरु-दुर्गेग-चन्द्राङ्गभूमि-वत्सरे। वर्षावासं चकारासौ, श्रीजिनचन्द्रसद्गुरुः ॥१६॥ ततो विहृत्य सूरीन्द्रो, ययौ गूर्जरपत्तनम् । तदा तत्रत्य सुश्राद्ध, स्तत्प्रवेशोत्सवः कृतः ॥१७॥ श्री बीकानेर-निर्यातः, संघः शत्रुजयं मुदा। प्रणम्य वलमानस्तान् ववन्दे पत्तनस्थितान् ।।१८।।
१२ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org