________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् तस्यामेव निशायां श्रो-जिनमाणिक्यसूरिणा । प्रकटीभूय सूरिभ्यो, दर्शितमाम्नया सह ॥७॥ समवसरण ग्रन्थे-क सूरि मंत्र-पत्रकम् । ततो भूतत्यसंवेग-वासना सहितं मनः ॥७॥ युग्मम् जेसलमेरुदुर्गऽय श्री जिनचंद्रसूरिणा । चतुर्मासी कृता संव-त्करेलांगेन्दु वत्सरे ॥८॥ श्रावकधर्मनिष्ठस्य, वच्छावताख्य गोत्रिणः । श्री बीकानेर वास्तव्य-संग्रामसिंह मन्त्रिणः ॥८१।। श्रीजिनचंद्रसूरिभ्यः प्रभूत मानपूर्वकम् । एक विज्ञप्तिपत्रं ह्या-गन्तुमत्र समागतम् ।।८२॥ साधुभिः सह सूरीन्द्रा-स्ते चतुर्मास्यनन्तरम् । ततो विहृत्य संजग्मु. बीकानेर पुरं वरम् ।।८।। तत्रत्यश्रावकैः साद्ध, संग्रामसिंह-मंत्रिणा। सत्र प्रवेशिता रम्य-महामहेन सूरयः ।।८४।। प्राचीनोपाश्रयं रुद्ध, शिथीलाचारित्र साधुभिः । दृष्ट्वा स्व वाजिशालायां, मंत्रिणोत्तारिताश्च ते ।।८।। तत्रैव संवदग्नीन्दु-रसेलाब्दे मुनीश्वराः। वर्षास्थितिं च तत्रत्य-श्राद्धाग्रहात्प्रचक्रिरे ॥८६।। श्रीजिनचन्द्रसूरीन्द्र, एकदा सरिभावयन् । भवस्वरूपमात्मीय-शिथीलत्वं विचारयन् ॥८॥ समुद्धतुं निजात्मानं, गच्छं शैथील्यतः पुनः । निज परात्म-कल्याणं, विधातुमुत्सुको ऽभवत् ॥८८॥ युग्मम
[ ११
Jain Educationa International
lal
For Personal and Private Use Only
www.jainelibrary.org