________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् ग्रह-बलाबलं दृष्ट्वा , गणकोपि जगाद तम् । भो श्रेष्ठिन् ! तव पुत्रोऽयं, धर्मनेता भविष्यति ॥२६॥ धर्मनेतृशिरोरत्न, भावी महाप्रभाविकः । संबोध्यानेकशो जीवान्, प्रापयिष्यति सद्गतिम् ॥२७॥ युग्मम्। स्वजनादिभिरानीतं, संप्रीतैः पुत्र-जन्मना । वस्त्राभरण-दीनार-श्रीफलादि ललौसकः ॥२८॥ श्रीवन्तोऽपि ददौ वस्त्रा-भरण श्रीफलादिकम् । स्वजनेभ्यो यथायोग्य, विधाप्य भोजनादिकम् ।।२६।। तत एकादशे घस्त्र, निष्कास्य सूतकं गृहात् । सम्प्राप्त द्वादशे तेन, स्वजनादयो निमन्त्रिताः॥३०॥ सो भोजयत्सुपक्वान्न- शाक-दाल्योदनादिकम् । प्रभुक्तोत्तरकालेऽदा,-त्तेभ्यः पुगीफलादिकम् ॥३१॥ ततः सुखासनस्थानां, स्वजनानां पुरो मुदा । स 'सुलतान' इत्याख्यां , स्वपुत्रस्य समर्पयत् ॥३२॥ सुलतानकुमारोऽथ, वद्धतेस्म दिने दिने । वयसा कान्तिरूपाभ्यां, द्वितीया चंद्रमा इव ॥३३॥ . पठनाय यदा योग्यो जातो प्रेषीत्तदा पिता। कलाचार्यसमीपं तं-कलाभ्यासाय बालकम् ॥३४॥ सुलतानकुमारोसौ, व्यावहारिक-धार्मिकाः सकलाः स्वल्पकालेन, कला जग्राह बुद्धिमान् ॥३५।। आसीदितः श्रीजिनवर्धमान-प्रभोरविच्छिन्नपरम्परायाम् संविज्ञ मुख्यो वसतौ निवास, उद्योतनाचार्यवरो मुमुक्षः॥३६॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org