________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् तत्र खेतसर ग्राम, ईतिभीत्यादि-वर्जितः । समाकीर्णः प्रभूतैश्च, धनधान्यचतुष्पदैः ॥१५॥ तत्रौसवंश जातीय उवास गोत्र-रीहडः। श्रीवंताख्य वणिक् श्रेष्ठः श्राद्धगुण-समन्वितः ।।१६।। तस्य प्रिया श्रियादेवी, पतिव्रता गुणिन्यभूत् । रूपेण सुरदेवीव, शीलालङ्कारधारिणी ॥१७॥ भुजानायाः समं पत्या, योग्यं सांसारिकं सुखम् । कुर्वन्त्याः श्राद्धकृत्यानि, तस्याः कालः कियान् ययौ ॥१८॥ सुस्वन-सूचितः कश्चि-जोवः पुण्यप्रभाविकः । अन्यदा सुखसुप्ताया-स्तस्या कुक्षाववातरत् ॥१६॥ तस्या गर्भ-प्रभावेन, जायन्ते शुभदोहदाः । समग्रशुभकार्यषु, जाता मति-विशेषतः॥२०॥ पृथवी रत्नगर्भव, गर्भ-रत्नबभार सा। गर्भकाले व्यतीतेऽथ, सुखं सुखेन सा सती ॥२१॥ संवद्वाणाङ्क बाणेन्दु-वर्षे चैत्रासिते तिथौ । द्वादश्यां शुभवेलायां, पुत्ररत्नमजीजनत् ।।२२।। ततः काचित्समेत्याशु कुमारी श्रेष्ठिनं जगौ। भो श्रेष्ठिन् ! वर्द्धसे श्रेष्ठ-तनुज-जन्मना खलु ॥२३॥ स पुत्र-जन्मना प्रीत-स्तस्यै विभूषणादिकम् । दत्त्वा पुनगुहं गत्वा. द्वितीयायामिवोडपम् । निधानमिव पुण्यानां, बालादित्यमिवोदितम् । सूरिलक्षणसम्पूर्ण, ददर्श तत्र बालकम् ।।२॥ युग्मम्।।
[३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org