________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् जिनचन्द्र गुरोः शिष्या हर्षवल्लभ वाचकाः । पुनः सुमति कल्लोल पुण्यप्रधान पाठकाः ॥११८।।
वाचक हर्षवल्लभस्य मयणरेहा चतुष्पदी, उपासग दसाङ्ग बालावबोधः सुमति कल्लोलस्य शुकराज चतुष्पदी, स्थानाङ्ग वृत्तिगत गाथा वृत्ति वादिहर्षनन्दनेन समं रचिता इत्यादि कृतयः उपलभ्यन्ते।
जातः पुण्य प्रधानस्य शिष्य सुमति सागरः । तच्छिष्यौ ज्ञानचन्द्राख्य साधुरंगाख्य वाचकौ ॥११६।।..
ज्ञानचन्द्रस्य ऋषिदत्ता चतुष्पदी, प्रदेश राज चतुष्पदी, साघरंगस्य दयात्रिंशिकादि कृतयः उपलभ्यन्ते ।
ज्ञानचन्द्रस्य शिष्यो भू द्रंग प्रमोद वाचकः । श्री विनयप्रमोदाख्यः साधुरंगस्य वाचकः ॥१२०।। रंगप्रमोदस्य चम्पक चतुष्पदी उपलभ्यन्ते । श्री विनयप्रमोदस्य विनयलाभ वाचकः । बालचन्द्रा पराख्यास्ति शिष्यो भूद्विशदाशयः ।।१२।।
अस्य च वच्छराज देवराज चतुष्पदी सिंहासन द्वात्रिंशिका सवैया बावनीत्यादि कृतयः उपलभ्यन्ते ।
वाचक साधुरङ्गस्य राजसागर पाठकः । शिष्योस्याप्य भवद्विद्वान् श्री ज्ञानधर्म पाठकः ॥१२२।। अस्य शिष्यो महाविद्वान् श्री दीपचन्द्र पाठकः । अध्यात्म तत्व वेत्तास्या भूद्दे वचन्द्र पाठकः ॥१२३।।
[ १०३
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org