________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् सुमतिसुन्दर धर्म-कीर्ति समयकीतयः । अस्य शिष्यास्त्रयो जाता सर्व शास्त्र विशारदाः॥११२।। सुमतिसुन्दरस्य शान्तिनाथ स्तवनम्, धर्मकीर्ते नेमिरासः मृगाङ्ग पद्मावती चतुष्पदी, जिनसागरसूरि रासः चतुर्विशति जिनचतुर्विशति स्तवनानि साधु समाचारी बालावबोधः सत्तरीसय बालावबोधादि कृतयः उपलभ्यन्ते । विद्यासार दयासार-महिमसार साधवः । राजसारादयो धर्मकीतः शिष्या प्रजगिरे ॥११३।।
दयासारस्य इलापुत्र चतुष्पदी, अमरसेन वज्रसेन चतुष्पदी, राजसारस्य मकरध्वज रासः इत्यादि कृतयः उपलभ्यन्ते । शिष्यः समयकीत्तश्च श्रीसोमाख्यो महामतिः । अस्य सुमति धर्माख्यो जातः शिष्य शिरोमणिः ॥११४॥
श्रीसोमेन स्वशिष्य सुमतिधर्मार्थ भुवनानंद चतुष्पदी कृता दृश्यते । जिनचन्द्र गुरोः शिष्यो रत्ननिधान पाठकः । साङ्ग श्री हेमशब्दानु शासन पठिता पुनः ॥११५।। नन्दाब्धि रसचन्द्राब्दे श्रीचन्द्रसूरिणार्पितम् । उपाध्याय पदं यस्मै शिष्योस्यरत्नसुन्दरः॥११६।। जिनचन्द्र गुरोः शिष्यो रङ्गनिधान पाठकः । पुनः पाठक कल्याण तिलको भून्महाव्रती ।।११७।।
१०२ ]
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org