________________
युगप्रधान श्री जिनचन्द्रसूरि चरितम् वाचक मतिहर्षस्य द्वौ शिष्यौ मुनिसत्तमौ । श्रीमन्महिममाणिक्य भवनलाभवाचकौ ॥४५॥ श्रीचन्द्रसूरि शिष्यो भू न्नयन कमलाभिधः । श्रीजयमन्दिरोस्यास्य कनककीर्ति वाचक ॥४६॥
अस्य च नेमिनाथरासः द्रोपदीरासः इत्यादि कृतय उपलभ्यन्ते।
श्री जिनसिंहसूरीन्द्रो भूच्छिष्यश्चन्द्र सद्गुरोः। पितास्य चाँपसीसाह चांपलदे प्रसूर्वरा ॥४॥ अस्य जन्मा भवद्वाण चन्द्राङ्ग चन्द्र वत्सरे । मार्गशुक्लस्य राकायां ग्रामेखेतासराभिधे ॥४८॥ मानसिंहोस्य नामा भू द्वर्धमानो दिनेदिने । क्रमात्कला कलापज्ञो जातो सावष्ट वार्षिकः ॥४६।। वीकानेर पुरेथासौ वैराग्य रङ्ग वासितः । सम्वद्वह्निकराङ्गन्दु वर्षे दीक्षाललौ महान् ।।५।। श्री जिनचन्द्रसूरीन्द्र शिष्यत्वेनाभवत्सकः । महिमराज नाम्नासौ प्रसिद्धि प्रगतो गणे ।।१।। विद्वन्निर्मल चारित्र विनयादिगुणास्पदम् । तं ज्ञावा गुरुणा योगान्वाहयित्वाऽखिलानपि ।।२।। तस्मै जैसलमेरौ खवेदाङ्ग चन्द्रवत्सरे। माघशुक्लस्य पञ्चम्यां वाचक पदमर्पितम् ॥५३॥ युग्मम्।।
[ ६५
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org