________________
युगप्रधान श्री जिनचन्द्रसूरि-चरितम् कल्याणकमलः शिष्यो भूजिनचन्द्र सद्गुरोः। दशधायति धर्मस्य प्रतिपालन तत्परः ॥३६॥
अस्य च श्रीजिनप्रभसूरि कृत षड्भाषास्तवनावचूरी, सनत्कुमार चतुष्पदी इत्यादि कृतय उपलभ्यन्ते ।
वाचकः सूरि शिष्यो भूत्तिलककमलाभिधः । गोलेच्छा गोत्रि तच्छिष्यः पद्महेमाख्य वाचकः ॥४०॥
अनेन गूर्जर पत्तने श्रीवाड़ीपार्श्वनाथस्य मुलताने • श्रीजिनदत्तसूरिस्तूपस्य प्रतिष्ठा कृताच ।
शिष्या अस्या भवनराज-दाननिलयसुन्दराः। नेमसुन्दरानंदवर्द्धन हर्षराजकाः ॥४१।। वाचक दानराजस्या भूद्धीरकीर्ति वाचकः। शिष्यो दिवंगत सोंक कर मुनीन्दु वत्सरे ॥४२॥ तच्छिष्यौ राजहर्षाख्य मतिहर्षाख्य वाचको। श्रीराजहर्ष शिष्यो भू द्राजलाभाख्य वाचकः ॥४३॥
अस्य च धन्ना-शालिभद्र चतुष्पदी भद्रानंदसन्धिरित्यादि कृतय उपलभ्यन्ते।
गुणभद्र क्षमाधीर राजसुन्दर वाचकाः । आसन्नयणरङ्गादि शिष्या अस्य विशारदाः ॥४४॥
[ ६४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org