________________
( ३५०)
समयसुन्दरकृतिकुसुमाञ्जलि
कति न सन्ति कियद्वरदायिनो, भुवि भवात सुगुरुर्मयकाश्रितः। सुरमणियदि हस्तगतो भवेत् , किंमपरै किल काचकपद कैः ।२। कठिनकष्टसमाकुलवर्त्मने, प्रवरसौख्यसमन्वितसझने । मम हृदि स्मरणं तव सर्वदा, भवतु नाम जपस्तु मुदाप्तये ॥३॥ विकटसङ्कटकोटिषु कल्पिता, तनुभृतां विषमा नियमा समा। सुगुरुराज तवेप्सित दर्शना-दनुभवन्ति मनोरथपूर्णता ।४| नृपसभासु यशो बहुमानता, विवदमानजने जयवादताम् । सुपरिवार-सुशिष्य-परम्परा--स्तव गुरो सुदृशस्फुरतेतराम् ।। न खलु राजभयं न रणाद्भयं, न खलु रोगभयं न विपद्भयम् । न खलु बन्दिभयं न रिपोर्भयं, भवतु भक्तिभृतां तव भूस्पृशाम् ।६। अपर-पूर्व-सुदक्षिण-मण्डले, मरुषु मालवसन्धिषु जङ्गले । मगध-माधुमतेष्वपि गूर्जरे, प्रति पुरे महिमा तव गीयते ।। मम मनोरथकल्पलता मतां, कुशलसरिगुरो फलिताऽधुनाम् । प्रबलभाग्यबलेन मया रयात् , यदमतं ददृशे तव दर्शनम् ।।
शशधरस्मरबाणरसक्षिति (१६५१), . प्रमितविक्रमभूपतिसंवति । समयसुन्दरभक्तिनमस्कृति, कुशलसूरिगुरोर्भवताच्छ्रिये ॥६॥
दादा श्री जिनकुशलसरि गीतम् आयौ आयो जी समरंता दादौ आयो । संकट देख सेवक के सदगुरु, देराउर तें धायो जी ॥स.॥१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org