________________
( १६४ )
समयसुन्दरकृतिकुसुमाञ्जलि
पटुलपं शम-मञ्जुल-मण्डनं, मधव-नंदन-वर्यरवं ध्रुवम् । वदन-नर्जितम-प्रभु-धर्मतं, मदन-लब्ध-जयं गुण-बन्धुरम् ॥५॥ कपट-मंदिर-तक्षण-दर्पहं, रतत-तद्र म-दंति-करं नुवे । नयवरं च भवंत-महं मुदा, त्रिभुवनाधिप पार्श्व-जिनेश्वरम् ॥६॥ सुजन-संस्तुत-विष्टप-सोदरं, मुख-विनिर्जित-वैधव-सम्पदम् । विगत-विड्वर-धीरम-मंदिरं, कज विलोचनयामल सद्गुणम् ॥७॥ संसार-रक्षक-कजानन-भाल-लष्टं,
सोल्लास-संहनन-बीततमोककष्टम् । निःकोप-पंक ललनं विधारिरिक्त,
संताप-कत्यभिदं ललवंश-शक्तम् ॥ ८ ॥ विश्वेश-शस्त-ममता-ममथं विविद्यम्,
__ मंदार-रंग-ददयौघ-धनाव-वद्यम् । रोगाववर्य गगनाय यशोविविक्तम्, . सन्नार-रंजन-कलंक-करंभ-भक्तम् ॥ ६ ॥ इति पार्श्व-जिनेश्वर-मीश्वर-नुतमचिरेण, शृंगाटक-बंध-नवीन-कवित्व-भरेण । गणपति-जिनचंद्र-विनेय-सकल-विधु-शिष्य,
गणि-समयसुन्दर इममस्तावीत् सुविशिष्य ॥१०॥ ॥ इति श्रीपार्श्वनाथशृंगाटकबन्धमय लघुस्तवनं समाप्तम् ॥ श्रीपार्श्वनाथ-हारबन्धचलच्छंखला-गर्भितस्त्रोतम् वन्दामहे वरमतं कृत-सात-जातं,
तं मान-कान्त-मनघं विपरौघ-कोपम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org