________________
समयसुन्दरकृतिकुसुमाञ्जलि
( ५५ )
युगादिगणधाराय, पञ्चकोटिसुसाधवे । श्रीशत्रु ञ्जयसिद्धाय, पुण्डरीक नमोस्तु ते ॥५॥ श्रीयादवकुलतिलकं, योगीन्द्रब्रह्मचारिमुकुटमणिम् । गिरिनारनामतीर्थे, नमाम्यहं नेमिनाथजिनम् ॥६॥ श्रीवस्तुपालचैत्ये, मन्त्रिश्रीविमलवसतिजिनभवने। श्रीअर्बुदगिरिशिखरे, जिनवरबिम्बानि जू कुर्वे ।।७।। श्रीअष्टापदतीर्थे, चक्रि-श्रीभरतकारिते चैत्ये। चतुरष्ट-दश-द्विमितान् चतुर्दिशं नौमि जिनराजान्॥८॥ सम्मेतशिखरतीर्थे, विंशतितीर्थङ्करा गताः सिद्धिम् । प्रणमामि तत्र तेषां, सद्भक्त्या स्तूपरूपाणि ॥६॥ श्रीमज्जेसलमेरो, श्रीपाचप्रमुखसप्तचैत्येषु । वन्दे वारं वारं, सहस्रशो जैनबिम्बानि ॥१०॥ राणपुरे जिनमन्दिर-मतिरम्यं न यते सदा मयका। धन्यं मम जन्म तदा, यदा करिष्यामि तद् यात्राम् ॥११॥ विद्या-पक्ष-विहीनो, गन्तुमशक्तः करोमि कि हा! हा! नन्दीश्वरादिदेवान्, दूरस्थस्तेन वन्दामि ॥१२॥ श्रीस्तम्भतीर्थनगरे, पार्श्वजिनसकलविश्वविख्यातः। श्रीअभयदेवसरिप्रकटितमूर्तिर्जिनो जीयात् ॥१३॥ श्रीशङ्खश्वर-गउड़ी-मगसी-फलवर्द्धिकादिचैत्येषु । या या अहत्प्रतिमा-स्तासां नित्यं प्रणामोस्तु ॥१४॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org