SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ३१ पञ्चमः खण्डः - का० २७ नैवास्ति अन्यवादो गुण-गुणिनोः नाप्यनन्यवादो जिनोपदेशे = द्वादशांगे प्रवचने सर्वत्र कथंचिदित्याश्रयणात् । तदेव अन्यदेवेति वा मन्यमानाः, मननीयमेव अवमन्यमाना वादिनोऽभ्युपगतविषयावज्ञाविधायित्वाद् अज्ञा भवन्ति अभ्युपगमनीयवस्त्वस्तित्वप्रतिपादकोपायनिमित्ताऽपरिज्ञानाद् मृषावादिवदिति तात्पर्यार्थः । ततोऽनेकान्तवाद एव व्यवस्थितः ॥२६॥ ननु 'सर्वत्राऽनेकान्तः' इति नियमे अनेकान्तेऽप्यनेकान्ताद् एकान्तप्रसक्तिः । अथ नानेकान्तेऽनेकान्तवादस्तर्हि अव्यापकोऽनेकान्तवाद इत्यत्राह - भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाइं । एवं भयणा णियमो वि होइ समयाविरोहेण ॥२७॥ ___ मूलगाथार्थ :- श्री जिनेन्द्र के उपदेश में न तो अन्यवाद है, न अनन्यवाद । फिर भी (एकान्ततः) 'अन्य' ही या 'अनन्य' ही माननेवाले और 'मानने योग्य' न माननेवाले अज्ञानी हैं ॥२६।। व्याख्यार्थ - श्रीमद् जिनेश्वर देव ने द्वादशांग प्रवचन यानी आगमों में कहीं भी गुण-गुणी के एकान्त भेदवाद का अथवा एकान्त अभेदवाद का समर्थन नहीं किया। भगवान ने उपदेश में कहीं भी एकान्त आग्रह को अवकाश ही नहीं दिया, सर्वत्र उन्होंने कथंचिदवाद को यानी स्याद्वाद या अनेकान्तवाद को ही अवकाश दिया है। फिर भी कुछ लोग ऐसे कदाग्रही होते हैं जो ‘एक ही है' अथवा 'भिन्न ही है' इस प्रकार एकान्त मान्यता धारण कर के, वास्तव में मानने लायक जो अनेकान्तवाद है उस की अवज्ञा करते हैं, इस प्रकार तात्त्विक स्वीकार करने योग्य विषयों की अवज्ञा करने के कारण वे अज्ञानी बने रहते हैं । तात्पर्य यह है कि मानने लायक वस्तु का प्रतिपादन किस * अस्या गाथाया व्याख्याऽनेकान्तव्यवस्थाग्रन्थे श्रीयशोविजय वाचकैः कृता साऽत्रोध्रियते - यथा भजनाऽनेकान्तो भजते = सर्ववस्तूनि तदेतत्स्वभावतया ज्ञापयति, तथा भजनाऽपि = अनेकान्तोऽपि भजनीया = अनेकान्तोऽप्यनेकान्त इतीष्टमस्माक मिति नयप्रमाणापेक्षयकान्तश्चानेकान्तश्चेत्येवमसौ ज्ञापनीयः । तथाहि - नित्यानित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वानित्यत्वाद्येकतरधर्मावच्छेदकावच्छेदेनैकतरधर्मात्मकत्वमुभयावच्छेदेन वोभयात्मकत्वम्, तथा नित्यानित्यत्वादिसप्तधर्मात्मकत्वप्रतिपादकतापर्याप्त्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छेदेनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्यावच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः । एतदेवाह - एवम् = उक्तरीत्या भजना = अनेकान्तः सम्भवति नियमश्च = एकान्तश्च; समयस्य = सिद्धान्तस्य "रयणप्पभा सिय सासया सिय असासया" इत्येवमनेकान्तप्रतिपादकस्य 'दव्वट्ठयाए सासया पज्जवट्ठयाए असासया' इत्येवं चैकान्ताभिधायकस्य अविरोधेन । न चैवमव्यापकोऽनेकान्तवादः, स्यात्पदसंसूचितानेकान्तगर्भस्यैवैकान्तस्वभावत्वादनेकान्तस्यापि स्यात्कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात् । न चानवस्था, देशकात्याभ्यामवयवावयविरूपस्य वस्तुन इव स्याद्वादस्याप्येकान्तानेकान्तात्मकस्यैव प्रमाणादेव प्रतीतेः । भिन्नैकान्ताऽनेकान्तावलम्बनेऽप्यस्या ज्ञप्तिविरोधित्वाभावात्, स्वसामग्रीमहिम्ना तादृशस्यैवोत्पत्तेर्मियोऽनपेक्षणादुत्पत्तिविरोधिताया अपि वक्तुमशक्यत्वात् । न चोत्पत्ति-ज्ञप्त्यन्यतराऽप्रतिबन्धकाप्यनवस्था दूषणम्, यत्तार्किका: 'मूलक्षयकरीं प्राहुरनवस्थां हि दूषणम्' इति । न चेदेवं तदा प्रमेयत्वे प्रमेयत्वाद्युपगमेऽप्यनवस्थादोषो दुर्निवार: स्यात् । यद्वा यथा नैयायिकादीनां 'घटाभावोऽतिरिक्त एव तदभावश्च घट एव, तृतीयाभावश्चाद्य एव चतुर्थश्च द्वितीय एव' इत्यादिरीत्या नानवस्था तथाऽस्माकं अनेकान्तः :'अनेकान्तानेकान्त एकान्तः तदनेकान्त आद्य एव 'तदनेकान्तश्च द्वितीय एवेति तृतीय-चतुर्थाद्यनेकान्तानामाद्यद्वितीययोरेव पर्यवसानात् काऽनवस्था नाम ?! 'एकान्तनियामकस्व-पररूपयोरनवस्थानादेकान्तगर्भानेकान्तस्य परिज्ञातुमशक्यत्वाज्ज्ञप्तिप्रतिबन्धिकैवेयमनवस्था' इति कश्चित् । तन्न, इत्थमपि 'गुडशुण्ठी'न्यायेनानवच्छिन्नानेकान्ते दोषाभावात्। सावच्छिन्नानेकान्तवादेऽपि सूक्ष्मावच्छेदकजिज्ञासोपरम एवानेकान्तप्रयोगान्तरपरिश्रमोपरमेऽनवस्थानवकाशादिति दिग । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003805
Book TitleSanmati Tark Prakaran Part 05
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherDivya Darshan Trust
Publication Year2010
Total Pages442
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy