SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १४८ त्रिषष्टिशलाकापुरुषचरित्रम् विमन्त्रो दृग्बन्धः किमपि भववासोऽतिविषमः ।।२००।। (शिखरिणी) इत्यादिदेशनया प्रतिबुद्धाः प्रभूताः प्राणिनः प्रवव्रजुर्जगृहुश्च ससम्यक्त्वादिकम्। प्रतिबुद्धिप्रभृतयश्च ते षडपि नृपाः समागत्य प्रव्रजिताः। कुम्भमुखप्रमुखाः श्रावका जाताः। भिषगाद्या अष्टाविंशतिर्गणधराश्च स्थापिताः। तत्रैव द्वितीयेऽह्नि विश्वसेनगृहे परमानेन च जातं प्रभोः पारणम्। पञ्चदिव्यानि तत्राविर्भूतानि।। प्रभुतीर्थे कुबेरो यक्षः। स च (इन्द्रायुधद्युतिः) चतुर्मुखो गजस्थो वरदपरशुशूलभृदभयदैर्दक्षिणैर्भुजैर्बीजपूरशक्तिमुद्गराक्षसूत्रिभिर्वामैर्भुजैर्युक्तः । वैरोट्या शासनदेवता। सा च कृष्णाङ्गिपद्मस्था वरदाक्षसूत्रिदक्षिणदोर्द्वया। मातुलिङ्गशक्तिभृद्वामभुजयुगा।। सर्वपरिवारे च प्रभोः साधूनां चत्वारिंशत्सहस्राः। साध्वीनां पञ्चाशत्सहस्राः। चतुर्दशपूर्विणां सप्तशत्यष्टषष्टिश्च। अवधिज्ञानिनां द्वाविंशतिशती । मनोविदां सप्तदशशती पञ्चाशञ्च। केवलिनां द्वाविंशतिशती। वैक्रियलब्धिमतामेकशतोना त्रिसहस्री च। वादिनां चतुर्दशशती। श्रावकाणां लक्षं त्र्यशीतिः सहस्राः। श्राविकाणां त्रिलक्षी [ सप्ततिसहस्राश्च।। आसन्नमोक्षश्च प्रभुः साध्वीनां पञ्चाशत्या साधूनां पञ्चासत्या समं पृथक् पृथक् सम्मेताद्रौ गत्वा मासिकेनानशनेनोर्ध्वस्थ एव फाल्गुनशुक्लदशम्यां भरण्यां निर्वाणसुखभाग् बभूव। मोक्षमहिमा च प्राग्वत्। अरनाथनिर्वाणात् कोटिसहस्राणि श्रीमल्लिनाथमोक्षस्याऽन्तरम् । कौमारे वर्षशती। व्रते चतुःपञ्चाशत् सहस्री नवशती च। एवं पञ्चपञ्चाशत् सहस्राः प्रभोः सर्वायुः ।। जिनाभिवन्द्यानतनाकिनाथः, जय क्षितौ त्वं जितवैरिजातः। श्रीमल्लिनाथो भवमित्रबोधः, मोक्षं प्रशान्तं ददतां जनानाम् ।।२०१।। (उपजातिः)] १. एतञ्चिह्नान्तर्गतपाठो नोपलभ्यते ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy