________________
हरिवंशपुराणं ।
४३६
चतुस्त्रिंशः सर्गः। प्रस्तारश्चास्य विन्यस्य त्रिलोकाकृतिरत्र तु । धारणा पारणाश्चापि त्रिंशदेकादशक्रमात् ॥६॥ फलमस्य विधैः श्रेष्ठ कोष्ठवीजादिबुद्धयः । त्रिलोकसारभूतं च त्रिलोकशिखरे सुखं ॥६१॥ क्रमेणाद्यंतमध्येषु यः पंचैकोपवासकः । वज्रमध्यो विधिः स स्याद् गण्याः पारणधारणाः॥६२॥ शकचक्रिगणेशत्वं समनःपर्ययोऽवधिः । प्रज्ञाश्रमणतो मोक्षो वज्रमध्यविधेः फलं ॥६३॥ द्वयाद्यास्ते यत्र पंचांता द्वयंताश्च चतुरादयः । विधिर्मदंगमध्योऽयं मदंगाकृतिरिष्यते ॥६४॥ क्षीरश्रावित्वमक्षीणमहानसगुणादिकाः । लब्धयो विधिरते च फलं निर्वाणमस्य च ॥६५॥ . पंचादयो द्विपर्यंताः पंचांता द्वयादयः परे । विधिमुरजमध्योऽस्य फलं चानंतरं श्रुतं ॥६६।। चतुर्थकानि यत्र स्युश्चतुर्विंशतिरेव सा । एकावली फलं तस्याः सुखमेकावलीस्थितं ॥६७। यत्र षष्ठोपवासाः स्युश्चत्वारिंशत्तथाष्ट च । द्विकावलीयमुद्रीता लोकद्विकसुखावली ॥६८॥ एकाद्या यत्र पंचांता एकांताश्चतुरादिकाः। मुक्तावलीयमाख्याता ख्याता मुक्तावली यथा||६९।। नांतरीयकमतस्या लोकालंकरणं फलं । मुक्तालयपरिप्राप्तिरंते चात्यंतिकं फलं ॥ ७० ॥ पंचांता यत्र चैकाद्याः पंचायेकांतिका पुनः । रत्नावलीयमस्याश्च फलं रत्नावलीगुणाः ॥७॥
रूपांतराख्यं च दशावसाना रूपांतराः षोडश यत्र चाये।
.रूपोनकास्तत्परमंतरूपाः मुक्तावलीयं खलु रत्नपूर्वा ।। ७२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org