SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ७८६ चतुःषष्टितमः सर्गः । प्रतिसेवनाकुशील उत्तरेषु विराधनं । गुणेषु सेवते कांचिदविराधितमूलकः ॥७३॥ स्युः कषायकुशीलास्तु रहितप्रतिसेवनाः । निर्ग्रथाः स्नातकाश्चापि ते सर्वे सर्वतीर्थजाः ||७४ || भावलिंगं प्रतीत्यामी निर्ग्रथाः पंच लिंगिनः । प्रतीत्य द्रव्यलिंगं तु भजनीया मनीषिभिः ॥ ७५ ॥ पुलाकस्योत्तरास्तिस्रो वकुलप्रतिसेवना - कुशीलयोश्च षड्भेदा कषाये चतुरुत्तराः ॥७६॥ स्यात्सूक्ष्म सांपराये च निर्ग्रथस्नातकेऽपि च । शुक्लैव केवला लेश्याऽयोगाः लेश्याविवर्जिताः ॥ पुलाकस्योपपादः स्यात्सहस्रारे परायुषः । प्रतिसेवनाकुशीलव कुशस्यारणेऽच्युते ॥७८॥ तथा सर्वार्थसिद्धौ तु निर्ग्रथांत्य कुशीलयोः । द्विसागरोपमायुष्काः सौधर्मे ते जघन्यतः ॥७९॥ संयमस्थानभेदास्तु स्युः कषायनिमित्तकाः । असंख्येयतमानंतगुण संयमलब्धयः ॥ ८० ॥ तत्र सर्वजघन्यानि लब्धिस्थानानि सर्वदा । स्युः कषायकुशीलस्य पुलाकस्य च योगिनः ॥ ८१ ॥ गच्छतस्तावसंख्येयस्थानानि युगपत्ततः । व्युच्छिद्यते पुलाकोऽन्यस्त्वसंख्येयानि गच्छति ॥ ८२॥ कुशेन कुशीलौ द्वौ स्थानानि युगपत्ततः । असंख्यानि च तौ यातौ वकुशस्त्ववहीयते ॥ ८३ ॥ असंख्येयानि गत्वातः स्थानानि प्रतिसेवना - कुशीलो हीयते तस्माद्यः कषायकुशीलकः ||८४|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy