________________
७७२
हरिवंशपुराणं ।
त्रिषष्टितमः सर्गः। पर्यपृच्छत्कुतः शिलातले पद्मिनीप्रभव इत्यनेन सः ॥६५॥ सोंतरे रुत हली सुधाशिना सिंचता सुचिरशुष्कपादपं ।
गोकुले वरतणांबुदायिना कृच्छ्रतः प्रतिविबोधितस्तदा ॥६६॥ सत्यमेव विगतोसुभिहेरिर्यद् ब्रवीषि मम मानुषे दृशी ।
सत्यमेतदिह नान्यथेति सन् भव्य ! भव्यमर्थमगदीर्यथास्थितिं ॥६७॥ सर्वमत्र जिनभाषितं पुरा जानतापि भवता भवस्थितिं । ___ मासषटूमतिवाहितं वृथा केशवस्य वहता कलेवरं ॥६८॥ कोऽत्र कस्य बहिरंगहिंसकः स्वांतरंगशुभकर्मरक्षकं । __ आयुकर्मनिजत्राणकारणं तत्क्षये भवति सर्वथा क्षयः ॥६९॥ संपदत्र करिकर्णचंचला संगमाः प्रियवियोगदुःखदाः। ___ जीवितं मरणदुःखनीरसं मोक्षमक्षयमतोजयेद्बुधः ॥७०॥ पूर्वरूपधरवंशदेवतो लब्धबोधिरितिवीतमोहकः । १ 'संपदोऽत्र । इति ख पुस्तके।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org